हरिहयः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हरिहयः, पुं, (हरिरेव हयो यस्य ।) इन्द्रः । इत्यमरः । १ । १ । ४६ ॥ (यथा, महाभारते । १ । ६७ । ५० । “द्वितीयस्तु ततोस्तेषां श्रीमान् हरिहयोपमः । अपराजित इत्येव स बभूव नराधिपः ॥”) सूर्य्यः । कार्त्तिकेयः । गणेशः । इति केचित् ॥
