हरिहरक्षेत्रम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हरिहरक्षेत्रम्, क्ली, (हरिहरस्य क्षेत्रम् ।) तीर्थ- विशेषः । स तु पाटलिपुत्रनगरस्थभागीरथ्यु- त्तरपारे वर्त्तते । तस्य नामान्तरं ददरिक्षेत्रं तद्देशीया वदन्ति । तत्र गङ्गागण्डकोसङ्गमे कार्त्तिकपौर्णमास्यां स्नानार्थं जनसमूहमेलनं भवति । तस्य नामकारणं यथा, -- “ततः स पञ्च रात्राणि स्थित्वा वै विधिपूर्ब्बकम् । गोधनान्यग्रतः कृत्वा हरिक्षेत्रं जगाम ह । हरिणाधिष्ठितं क्षेत्रं हरिक्षेत्रं ततः स्मृतम् ॥ सदा नन्दी शूलपाणिर्गोधनेन पुरस्कृतः । स्थितवांस्तद्दिनादेव तत्क्षेत्रं हरिहरात्मकम् । देवानामटनाच्चैव देवाट इति संज्ञितम् ॥” इति वाराहे भगवच्छास्त्रे सोमेश्वरादिलिङ्ग- महिमाविमुक्तक्षेत्रत्रिवेण्यादिमहिमानामा- ध्यायः ॥
