हर्म्म्यम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हर्म्म्यम्, क्ली, (हरति जनमनांसीति । हृ + अघ्ना- दित्वात् यत् मुट् च । धनिनां वासः । इत्य- मरः । २ । २ । ९ ॥ धनिनां व्यवहारिकादीनां वासः काष्ठेष्टकादिना कृतं धवलगृहं हर्म्म्यादि- संज्ञकं स्यात् । हरति मनो हर्म्म्यं नाम्नीति हृञो म्यः इति भरतः । अन्यच्च । हरति मनो हर्म्म्यं अघ्नानित्वात् यत् मुट् च हर्म्म्यम् । आदिशब्देन स्वस्तिकाट्टालिकादेर्ग्रहणम् । धनिनां राजव्यतिरिक्तानां वासो गृहम् । एकं काष्ठेष्टकादिकृतस्य धनिगृहस्य । इत्यमर- टीकायां रायमुकुटः ॥ (यथा, -- “हर्म्म्यञ्चाक्लेदिभूमिर्नभसि च शयनं शीकरोष्ण- प्रहीणे ॥” इति वैद्यकपथ्यापथ्यविधौ वर्षोपचारे ॥)
