हर्षः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हर्षः, पुं, (हृष तुष्टौ + घञ् ।) इष्टश्रवणजन्य- सुखम् । इति महाभारते मोक्षधर्म्मः ॥ आह्लादः । तत्पर्य्यायः । मुत् २ प्रीतिः ३ प्रमदः ४ प्रमोदः ५ आमोदः ६ सम्मदः ७ आनन्दथुः ८ आनन्दः ९ शर्म्म १० शातम् ११ सुखम् १२ इत्यमरः । १ । ४ । २४ ॥ मुदा १३ मुदिता १४ आनन्दिः १५ नन्दिः १६ सातम् १७ सौख्यम् १८ । केचिंत्तु मुदादिसप्तकं प्रीतौ आनन्दथ्वादिपञ्चकं सुखे । प्रीतिश्च सुखजो विकारः इत्याहुः । इति तट्टीकायां भरतः ॥ तथा च । “मुत् प्रीतिः प्रमदामोदसम्मोदमोदसम्मदाः । प्रमोदो हर्ष इत्येव हर्षपर्य्याय ईरितः ॥ आनन्दो नन्दथुर्नन्दः सुखमानन्दथुर्म्मुदा । सौख्यं शर्म्मोपजोषः स्यादानन्दं जोषमित्यपि ॥ मुदादिजोषपर्य्यन्तमेकपर्य्यायः इत्यपि ॥” इति शब्दरत्नावली ॥ * ॥ हर्षस्य पुत्त्रः कन्दर्पः । यथा, -- पुलस्त्य उवाच । “कन्दर्पो हर्षतनयो योऽसौ कामो निगद्यते । स शङ्करेण संदग्धो ह्यनङ्गत्वमुपागतः ॥” इति वामने ५ अध्यायः ॥ (रोमाञ्चः । यथा । “हृष्येते हर्षयुक्तौ भवतः हर्षश्च रोमाञ्चप्रायः ।” इति रुग्विनिश्चयस्य वातव्याधिव्याख्याने विजयरक्षितः ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हर्षः [harṣḥ], [हृष्-घञ्]
Joy, delight, pleasure, satisfaction, gladness, rapture, glee, exultation; हर्षो हर्षो हृदयवसतिः पञ्चबाणस्तु बाणः P. R.1.22; सहोत्थितः सैनिकहर्षनिःस्वनैः R.3. 61.
Thrilling, bristling, erection (of the hair of the body); as in रोमहर्ष q. v.; नेत्रे जलं गात्ररुहेषु हर्षः Bhāg.2. 3.24.
Joy, considered as one of the 33 or 34 subordinate feelings; हर्षस्त्विष्टावाप्तेर्मनःप्रसादो$श्रुगद्गदादिकरः S. D. 195; or इष्टप्राप्त्यादिजन्मा सुखविशेषो हर्षः R.G.
The erection of the sexual organ; lustfulness.
Ardent desire.-Comp. -अन्वित a. full of joy, happy; so हर्षविष्ट. -आकुलa. agitated with joy. -उत्कर्ष excess of happiness or joy, ecstacy. -उदयः rise of joy. -कर a. gratifying, delighting. -कीलकः a kind of sexual enjoyment. -गर्भa. blissful. -जम् semen. -जड a. dull or paralyzed with joy; परामृशन् हर्षजडेन पाणिना तदीयमङ्गं कुलिशव्रणाङ्कितम् R.3.68. -दोहलः, -लम् lustful desire. -वर्धनः N. of a great king od Northern India and founder of an era, A. D.65 or 66. -विवर्धन a. increasing joy. -संपुटः A kind of sexual enjoyment. -स्वनः a cry or shout of joy.
