हर्षणः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हर्षणः, पुं, (हर्षयतीति । हृष् + णिच् + ल्युः ।) विष्कम्भादिसप्तविंशतियोगान्तर्गतचतर्द्दशयोगः । तत्र जातफलम् । “सुचारुगात्रं स्फुटपद्मनत्रं शास्त्रप्रयत्ने विनयोपपन्नः । प्रसूतिकाले यदि हर्षणः स्या- दमर्षणो नैव जनः कदाचित् ॥” इति कोष्ठीप्रदीपः ॥ * ॥ चक्षूरोगविशेषः । श्राद्धविशेषः । श्राद्धदेवः ॥ हर्षकारके, त्रि । इति शब्दरत्नावली ॥ (यथा, महाभारते । ७ । ३१ । ७६ । “एवं सुकलिलं युद्धमासीत् क्रव्यादहर्षणम् । महद्भिस्तैरभीतानां यमराष्ट्रविवर्द्धनम् ॥”)
