हलधरः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हलधरः, पुं, (धरतीति । धृ + अच् । हलस्य धरः ।) बलदेवः । यथा, -- “नीलाम्बरो हलधरो हलभृद्धालभृत् बलः ॥” इति शब्दरत्नावली ॥ (यथा च महाभारते । १ । २२० । ७ । “ततो हलधरः क्षीवो रेवतीसहितः प्रभुः । अनुगम्यमानो गन्धर्व्वैरचरत्तत्र भारत ! ॥”) हालिकः । यथा, ज्योतिस्तत्त्वे । “सालङ्कारो हलधरः स्रग्भिश्च पूजितं हलम् ॥”
