सामग्री पर जाएँ

हलम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हलम्, क्ली, (हलति भूमिमिति । हल + अच् ।) लाङ्गलम् । इत्यमरः । २ । ९ । १३ ॥ तत्पर्य्यायः । “हलन्तु लाङ्गलं गोदारणञ्च सीरकुन्तलौ ।” इति जटाधरः ॥ तत्र गोयोजने दोषादोषौ । हारीतः । “अष्टौगवं धर्म्महलं षड्गवं जीवितार्थिनाम् । चतुर्गवं नृशंसानां द्विगवं ब्रह्मघातिनाम् ॥” इति तृतीययामार्द्धकृत्ये आह्निकतत्त्वम् ॥ * ॥ हलप्रवाहदिनादि यथा । दीपिकायाम् । “पूर्ब्बाग्नियाम्यफणिपित्र्यशिवान्यभेषु रिक्ताष्टमीविगतचन्द्रतिथिं विहाय । द्व्यङ्गालिगोसमुदये विकुजार्किवारे शस्तेन्दुयोगकरणेषु हलप्रवाहः ॥ * ॥ हलप्रवाहवद्बीजवपनस्य विधिः स्मृतः । चित्रायाञ्च शुभे केन्द्रे स्थिरर्क्षमनजोदये ॥” तिस्रः पञ्च वा रेखा हलेन कार्य्याः । भग्नशृङ्ग- खुरलाङ्गूलाः कपिलाश्च वृषा न योक्तव्याः । हलप्रवाहकाश्च समर्थाः कर्त्तव्याः । हलानि नवानि दृढानि कर्त्तव्यानि । वृषभयुद्धादिकं न शुभदं वृषभाणां नर्द्दनेन चतुर्गुणं शस्य मूत्र- पुरीषोत्सर्गे तथा ॥ * ॥ वीजवपने त्विदमधि- कम् । सुवर्णजलसंयुक्तं बीजमुष्टित्रयं इन्द्रं ध्यायन् स्वयं प्राजापत्येन तीर्थेन वपेत् । उभय- त्रैव प्राङ्मुखः जलपूर्णं कलसं गृहीत्वा । “त्वं वै वसुन्धरे सीते बहुपुष्पफलप्रदे । नमस्ते मे शुभं नित्यं कृषिं मेधां शुभे कुरु ॥ रोहन्तु सर्व्वशस्यानि काले देवः प्रवर्षतु । कर्षकास्तु भवन्त्वग्य्रा धान्येन च धनेन च स्नाहेति प्रार्थयेदिति ॥” इति ज्योतिस्तत्त्वम् ॥ * ॥ अपि च । “अमावस्यां पितृश्राद्धे अम्बुवाचीदिने तथा । लाङ्गलेन क्षतं क्षेत्रं पृथिवी कम्पते सदा ॥” इति कर्म्मलोचनम् ॥ * ॥ स्मृतिसागरसारे गोभिलः । “हलैर्व्वा शकटैर्व्वापि वाहयेत् यो वृषं स्वयम् । प्राजापत्यद्वयं कुर्य्यात् द्विगुणं योषितां गवाम् ॥ वृषभन्तु समुत्सृष्टं कपिलां वापि कामतः ॥ योजयित्वा हले कुर्य्यात् व्रतं चान्द्रायणद्वयम् ॥” इति तिथ्यादितत्त्वम् ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हलम् [halam], [हल् घञर्थे करणे क]

A plough; वहसि वपुषि विशदे वसनं जलदाभम् । हलहतिभीतिमिलितयमुनाभम्; or हलं कलयते Gīt.1.

Deformity, ugliness; ततो मया रूपगुणैरहल्या स्त्री विनिर्मिता । हलं नामेह वैरूप्यं हल्यं तत्प्रभवं भवेत् ॥ Rām.7.3. 22.

Hindrance.

Quarrel. -Comp. -अभः a piebald horse.

आयुधः an epithet of Balarāma.

N. of the author of अभिधान-रत्नमाला. -ककुद् f. the projecting beam of the plough. -गोलकः a kind of insect; फलं वा मूलकं हृत्वा अपूपं वा पिपीलिकाः । चोरयित्वा च निष्पावं जायते हलगो- लकः ॥ Mb.13 111.1 (com. हलगोलकः दीर्घपुच्छो गोलरूपी कीटविशेषः). -दण्डः the shaft or pole of a plough. -धर, -भृत् m.

a ploughman.

N. of Balarāma; केशव धृतहलधररूप जय जगदीश हरे Gīt.1; अंसन्यस्ते सति हलभृतो मेचके वाससीव Me.61. -भूतिः, -भृतिः f. ploughing, agriculture, husbandry. -मार्गः a furrow. -मुखम् a ploughshare,-वाहा a particular landmeasure. -सीरः a ploughshare.-हति f.

striking or drawing along with a plough.

ploughing.

"https://sa.wiktionary.org/w/index.php?title=हलम्&oldid=268987" इत्यस्माद् प्रतिप्राप्तम्