सामग्री पर जाएँ

हलीमक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हलीमकः, पुं, रोगविशेषः । यथा पाण्डुरोगस्यैव भेदं हलीमकञ्चाह । “यदा तु पाण्डोर्व्वर्णः स्याद्धरितश्यावपीतकः । बलोत्साहः क्षयस्तन्द्रामन्दाग्नित्वं मृदुज्वरः ॥ स्त्रीष्वहर्षोऽङ्गमर्द्दश्च श्वासतृष्णारुचिभ्रमाः । हलीमकं तदा तस्य विद्यादनिलपित्ततः ॥” पाण्डोः पाण्डुरोगिणः ॥ तस्य चिकित्सा यथा, “मारितस्यायसश्चूर्णं मुस्ताचूर्णेन संयुतम् । खदिरस्य कषायेण पिबेद्धन्तुं हलीमकम् ॥ सिता तिक्ता बला यष्टी त्रिफला रजनीयुगैः । लेहं लिह्यात् समध्वाज्यं हलीमकनिवृत्तये ॥ अमृतलतारमकल्कपसाधितं तुरगविद्विषः सर्पिः । क्षीरचतुर्गुणमेतद्वितरेच्च हलीमकार्त्तेभ्यः ॥” इति अमृताघृतम् ॥ * ॥ “मधुरैरन्नपानेस्तं वातपित्तहरैर्हरेत् । कामलापाण्डुरोगोक्तक्रियाञ्चात्रोपयोजयेत् ॥” अथ सामान्यतः पाण्डुरोगकामलाहलीमक- चिकित्सा । “फलत्रिकामृतावासातिक्तामूनिम्बनिम्बजः । क्वाथः क्षौद्रयुतो हन्यात् पाण्डुरोगं सकामलम् ॥ १ त्र्यूषणं त्रिफला मुस्तं विडङ्गं चव्यचित्रके । दार्व्वी त्वङ्माक्षिको धातुर्ग्रन्थिको देवदारु च ॥ एपां द्विपलिकान् भागवान् कृत्वा चूर्णं पृथक् पृथक् । मण्डूरं द्विगुणं चूर्णाच्छुद्धमञ्जनसन्निभम् ॥ मूत्रे चाष्टगुणे पक्त्वा तस्मिंस्तत् प्रक्षिपेत्ततः । औडम्बरसमान् कृत्वा वटकांस्तान् यथाग्नि च । उपयुञ्जीत तक्रेण जीर्णे सात्म्यञ्च भोजनम् । मण्डूरवटका ह्येते प्राणदाः पाण्डुरोगिणाम् ॥ कुष्टानि जठरं शोथमूरुस्तम्भं कफामयान् । अर्शांसि कामलां मेहं प्लीहानं शमयन्ति च ॥” इति त्र्यूषणादिमण्डूरवटकः ॥ २ ॥ “किराततिक्तं सुरदारु दार्व्वी मुस्ता गुडूची कटुका पटोलम् । दुरालभा पर्पटकं सनिम्बं कटुत्रिकं वह्निफलत्रिकञ्च ॥ फलं विडङ्गस्य समांशकानि सर्व्वैः समं चूर्णमथायसश्च । सर्पिर्मधुभ्यां वटिका विधेया तक्रानुपानात् भिषजा प्रयोज्या ॥ निहन्ति पाण्डुञ्च हलीमकञ्च शोथं प्रमेहं ग्रहणारुजञ्च । श्वासञ्च कासञ्च सरक्तपित्त- मर्शांस्यथोरुग्रहमामवातम् ॥ व्रणांश्च गुल्मान् कफविद्रधिञ्च श्वित्रञ्च कुष्ठञ्च ततः प्रयोगात् ॥” इति अष्टादशाङ्गलोहम् ॥ ३ ॥ “यवगोधूमशाल्यन्नै रसैर्जाङ्गलजैर्हितैः । मुद्गाढकीमसूराद्यैरेषु भोजनमिष्यते ॥” एषु पाण्डुरोगकामलाहलीमकेषु ॥ ४ ॥ इति भावप्रकाशः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हलीमक m. id. L.

हलीमक m. a partic. form of jaundice (in this sense prob. connected with हरिमन्) Sus3r.

हलीमक m. N. of a serpent-demon MBh.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

HALĪMAKA : A nāga born in the family of Vāsuki. He was burnt to death in the serpent yajña of Janamejaya. (Ādi Parva, Chapter 57, Verse 5).


_______________________________
*4th word in right half of page 306 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=हलीमक&oldid=441210" इत्यस्माद् प्रतिप्राप्तम्