हल्लीषकम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हल्लीषकम्, क्ली, (हल्लीषमेव । स्वार्थे कन् ।) स्त्रीणां मण्डलिकानृत्यम् । इति जटाधरः ॥ “मण्डलेन तु यन्नृत्यं स्त्रीणां हल्लीषकन्तु तत् ॥ इति हेमचन्द्रः ॥ एकस्य पुंसो बहुभिः स्त्रीभिः क्रीडनम् । तत्तु रासक्रीडा । यथा, -- “गोपीनां मण्डलीनृत्यबन्धे हल्लीषकं विदुः ॥” इति कोषात् ॥ तल्लक्षणन्तु । “पृथुं सुवृत्तं मसृणं वितस्ति- मात्रोन्नतं कौ विनिखन्य शङ्कुकम् । आक्रम्य पद्भ्यामितरेतरन्तु हस्तैर्भ्रमोऽयं खलु रासगोष्ठी ॥” इति हरिवंशटीकायां नीलकण्ठः ॥ हल्लीसकं दन्त्यसकारमध्यमपि ॥
