हसितम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हसितम्, क्ली, (हस + क्तः ।) हास्यम् । (यथा, वृहत्संहितायाम् । ६८ । ७४ । “हासतं शुभदमकम्पं स निमीलितलोचनञ्च पापस्य । हृष्टस्य हसितमसकृत् सोन्मादस्यासकृत् प्रान्ते ॥”) कामदेवधनुः । इति केचित् ॥ (हास्यकरणम् । यथा, कथासरित्सागरे । ५९ । १५९ । “अथ कर्म्मगतिं चित्रां दृष्ट्वास्य हसितं मया ॥” परिहासः । यथा, किराते । १३ । ४७ । “कीर्त्तितानि हसितेऽपि तानि यं व्रीडयन्ति चरितानि मानिनम् ॥”)
