हस्तः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्तः, पुं, (हसति विकशतीति । हस + “हसि- मृग्रिण्वामीति ।” उणा० ३ । ८६ । इति तन् ।) शरीरावयवविशेषः । स च कर्म्मे- न्द्रियः । हात इति भाषा । ततपर्य्यायः । पाणिः २ समः ३ शयः ४ । इत्यमरमाला ॥ पञ्चशाखः ५ । इत्यमरः ॥ करः ६ भुजः ७ । इति जटाधर ॥ कुलिः ८ भुजादलः ९ । इति शब्दरत्नावली ॥ “हस्तावध्यात्ममित्याहुरध्यात्मविदुषो जनाः । अधिभूतञ्च कर्म्माणि शुक्रस्तत्राधिदैवतम् ॥” इति महाभारते आश्वमेधिकपर्व्व ॥ हस्तस्य शुभाशुभलक्षणं बाहुशब्दे द्रष्टव्यम् ॥ * ॥ विस्तृतकरप्रकोष्ठः । इत्यमरः । २ । ६ । ६८ ॥ स च चतुर्व्विंशत्यङ्गुलपरिमाणम् । इति भरतः ॥ यथा, -- “यवानां तण्डुलैरेकमङ्गलं चाष्टभिर्भवेत् । अदीर्घयोजितैर्हस्तश्चतुर्विंशतिभिरङ्गुलैः ॥” इति तिथ्यादितत्त्वधृतकालिकापुराणम् ॥ अपि च । “यवोदरैरङ्गुलमष्टसंख्यै- र्हस्तोऽङ्गुलैः षड्गुणितैश्चतुर्भिः । हस्तैश्चतुर्भिर्भवतीह दण्डः क्रोशः सहस्रद्वितयेन तेषाम् ॥” इति लीलावती ॥ * ॥ हस्तमात्रदत्तस्नेहादिद्रव्यभक्षणनिषेधो यथा, “हस्तदत्ताश्च ये स्नेहा लवणं व्यञ्जनानि च । दातारं नोपतिष्ठन्ते भोक्ता भुङ्क्ते तु किल्वि- षम् ॥ तस्मादन्तरितं कृत्वा पर्णेनाथ तृणेन वा । प्रदद्यात् न तु हस्तेन नायसेन कदाचन ॥” इति श्राद्धतत्त्वधृतवशिष्ठवचनम् ॥ * ॥ एकहस्तदत्तद्रव्यभोजननिषेधो यथा, -- “एकेन पाणिना दत्तं शूद्रदत्तं न भक्षयेत् ।” इति तद्धृतादिपुराणवचनम् ॥ * ॥ हस्तिशुण्डः । यथा, रामायणे । २ । २३ । ४ । “अग्रहस्तं विधुन्वंस्तु हस्ती हस्तमिवात्मनः ॥”) हस्तानक्षत्रम् । (यथा, मार्कण्डेये । ३३ । ११ । “प्रयाति श्रेष्ठतां सत्यं हस्ते श्राद्धप्रदो नरः ॥”) केशात् परे तत्समूहवाचकः । इति मेदिनी ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्तः [hastḥ], [हस्-तन् न इट् Uṇ.3.86]

The hand; हस्तं गत 'fallen in the hand or possession of'; गौतमीहस्ते विसर्जयि- ष्यामि Ś.3 'I shall send it by Gautamī'; so हस्ते पतिता; हस्तसंनिहितां कुरु &c.; शंभुना दत्तहस्ता Me.62 'leaning on Śambhu's hand'; हस्ते-कृ

(हस्तेकृत्य-कृत्वा) 'to take or seize by the hand, take hold of the hand, take in hand, take possession of'; Prov.:हस्तकङ्कणं किं दर्पणे प्रेक्ष्यते Karpūr. 'sight requires no mirror'.

The truck of an elephant; Ku.1.36; अथवा हस्तिहस्तचञ्चलानि पुरुषभाग्यानि भवन्ति Avimārakam 2.

N. of the 13th lunar mansion consisting of five stars.

The fore-arm, cubit, a measure of length (equal to 24 aṅgulas or about 18 inches, being the distance between the elbow and the tip of the middle finger).

Hand-writing, signature; धनी वोपगतं दद्यात् स्वहस्तपरिचिह्नितम् Y.1.319; स्वहस्त- कालसंपन्नं शासनम् 1.32 'bearing date and signature'; धार्यतामयं प्रियायाः स्वहस्तः V.2 'the autograph of my beloved'; 2.2.

(Hence fig.) Proof, indication; Mu.3.

Help, assistance, support; वात्या खेदं कृशाङ्ग्याः सुचिरमवयवैर्दत्तहस्ता करोति Ve.2.21.

A mass, quantity, abundance (of hair), in comp. with केश, कच &c.; पाशः पक्षश्च हस्तश्च कलापार्थाः कचात् Ak.; रतिविगलितबन्धे केशहस्ते सुकेश्याः सति कुसुमसनाथे किं करोत्यषे वहीं V.4.22.

स्तम् A pair of leather-bellows.

Skill (in using the hand); कलासु कौशलमक्षभूमिहस्तादिषु Dk. 2.2. -Comp. -अक्षरम् one's own hand or signature, one's own sign-manual. -अग्रम् the finger (being the extremity of the hand). -अङ्गुलिः f. any finger of the hand. -अभ्यासः contact with the hand. -अवलम्बः, आलम्बनम् support of the hand; दत्तहस्तावलम्बे प्रारम्भे Ratn.1.8 'being aided or helped on'. -आमलकम् 'the fruit of the myrobalan held in the hand', a phrase used to denote that which can be clearly and easily seen or understood; cf. करतलामलकफलवदखिलं जगदालोकयताम् K.43.

आवापः a finger-guard (ज्याघातवारणम्); V.5; Ś.6.

a hand-fetter; व्यालकुञ्जरदुर्गेषु सर्पचोरभयेषु च । हस्तावापेन गच्छन्ति नास्तिकाः किमतः परम् ॥ Mb.12.181.5.

कमलम् a lotus carried in the hand.

a lotus-like hand. -कौशलम् manual dexterity. -क्रिया manual work or performance, handicraft. -गत, -गामिन् a. come to hand, fallen into one's possession, obtained, secured; त्वं प्रार्थ्यसे हस्तगता ममैभिः R.7.67;8.1. -ग्राहः taking by the hand. -चापल्यम् = हस्तकौशलम् q. v.

तलम् the palm of the hand.

the tip of an elephant's trunk. -तालः striking the palms together, clapping the hands. -तुला 'hand-balance', weighing in the hand; हस्ततुलयापि निपुणाः पलप्रमाणं विजानन्ति Pt.2.83. -दक्षिणa.

situated on the right hand.

Right, correct.-दोषः a slip of the hand. -धारणम्, -वारणम् warding off a blow (with the hand). -पादम् the hands and feet; न मे हस्तपादं प्रसरति Ś.4. -पुच्छम् the hand below the wrist. -पृष्ठम् the back of the hand. -प्रद a. supporting, helping. -प्राप्त, -वर्तिन्, -स्थ, -स्थित a.

held in the hand.

gained, secured. -प्राप्य a. easily accessible to the hand; that can be reached with the hand; हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्षः Me.77. -बिम्बम् perfuming the body with unguents. -भ्रष्ट a. escaped.-मणिः a jewel worn on the wrist. -रोधम् ind. in the hands; हस्तरोधं दधद् धनुः Bk.5.32.

लाघवम् manual readiness or skill.

a sleight of the hand, legerdemain.-लेखः Sketching practice before producing an object of art, hand-drawing; अस्यैव सर्गाय भवत्करस्य सरोजसृष्टिर्मम हस्तलेखः N.7.72; हस्तलेखमसृजत् खलु जन्मस्थानरेणुकमसौ भवदर्थम् ibid.21.69. -वापः = हस्तक्षेपः shooting (arrows) with the hand; यस्यैकषष्टिर्निशितास्तीक्ष्णधाराः सुवाससः संमतो हस्तवापः Mb. 5.23.22. -वाम a. situated on the left (or wrong) hand. -विन्यासः position of the hands. -संवाहनम् rubbing or shampooing with the hands; संभोगान्ते मम समुचितो हस्तसंवाहनानां यास्यत्युरुः सरसकदलीगर्भगौरश्चलत्वम् Me.98.-सिद्धिः f.

manual labour, doing with the hands.

hire, wages. -सूत्रम् a bracelet or thread-string worn on the wrist; धात्र्यङ्गुलीभिः प्रतिसार्यमाणमूर्णामयं कौतुकहस्त- सूत्रम् Ku.7.25. -स्वस्तिकः crossing the hands; स्तनविनि- हितहस्तस्वस्तिकाभिर्वधूभिः Māl.4.1. -हार्य a. manifest.

"https://sa.wiktionary.org/w/index.php?title=हस्तः&oldid=506355" इत्यस्माद् प्रतिप्राप्तम्