हस्तामलकम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हस्तामलकम्, क्ली, (हस्तस्थितं आमलकम् ।) करस्थितामलकीफलम् । (यथा, रामायणे । “त्वया दृष्टं जगत्सर्व्वं हस्तामलकवत् सदा ॥”) वेदान्तग्रन्थविशेषः । तल्लिख्यते । श्रीमच्छङ्करा- चार्य्यस्य दिग्विजयसमये पथिमध्ये कञ्चित् बालकं प्रति प्रश्नः । “कस्त्वं शिशो ! कस्य कुतोऽसि गन्ता किं नाम ते त्वं कुत आगतोऽसि । एतद्वद त्वं मम सुप्रसिद्धं मत्प्रीतये प्रीतिविवर्द्धनोऽसि ॥” बालकस्योत्तरम् । “नाहं मनुष्यो न च देवयक्षो न ब्राह्मणक्षत्त्रियवैश्यशूद्राः ।
