हस्तिकर्णः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हस्तिकर्णः, पुं, (हस्तिनः कर्णमिव पर्णमस्य ।) एरण्डः । पलाशभेदः । गणदेवताभेदः । इति मेदिनी ॥ हस्तिकन्दः । रक्तैरण्डः । इति राज- निर्घण्टः ॥ हस्तिकर्णपलाशस्य गुणाः । “हस्तिकर्णः परं वृष्यो मेधायुर्बलवर्द्धनः ।” इति राजवल्लभः ॥ अपि च । श्रीहरिरुवाच । “हस्तिकर्णस्य वै मूलं गृहीत्वा चूर्णयेद्धर ! । सर्व्वरोगविनिर्म्मक्तं चूर्णं पलशतं शिव ! ॥ सक्षीरं भक्षितं कुर्य्यात् सप्ताहेन वृषध्वज ! । नरं श्रुतिधरं शूरं मृगेन्द्रगतिविक्रमम् ॥ पद्मगौरप्रतीकाशं युक्तं दशशतायुषा । षोडशाब्दाकृतिं रुद्र ! सततं दुग्धभोजितम् ॥ मधुसर्पिःसमायुक्तं जग्धमायुष्करं भवेत् । तज्जग्धं मधुना सार्द्धं दशवर्षसहस्रिणम् ॥ कुर्य्यान्नरं श्रुतिधरं प्रमदाजनवल्लभम् । दध्ना नित्यं भक्षितन्तु वज्रदेहकरं शिव ! ॥ कृष्णकेशसमायुक्तं नरं वर्षसहस्रिणम् । तच्च काञ्जिकसंयुक्तं नरं कुर्य्याच्च भक्षितम् ॥ शतवर्षं दिव्यदेहं बलीपलितवर्ज्जितम् । जग्धं त्रिफलया युक्तं चक्षुष्मन्तं करोति वै ॥ अन्धः पश्येत्तु चूर्णस्य सांज्यस्यैव तु भक्षणात् । महिषक्षीरसंयुक्तं तल्लेपः-कृष्णकेशकृत् ॥ खल्लीटस्य च वै केशा भवन्ति वृषभध्वज ! । तैलयुक्तेन चूर्णेन बलीपलितवर्ज्जितम् ॥ तदुद्वर्त्तनमात्रेण सर्व्वरोगैः प्रमुच्यते । सच्छागक्षीरचूर्णेन दृष्टिः षण्मासतोऽञ्जनात् ॥” इति गारुडे १० अध्यायः ॥
