सामग्री पर जाएँ

हस्तिदन्तः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हस्तिदन्तः, पुं, (हस्तिनो दन्त इव आकारोऽस्य । अच् ।) मूलकम् । इति शब्दरत्नावली ॥ (हस्तिनो दन्त इव ।) द्रव्यरक्षार्थभित्तिस्थकीलकः । (हस्तिनो दन्तः) गजदशनञ्च ॥ (यथा, -- “हस्तिदन्तमसीं कृत्वा मुख्यञ्चैव रसाञ्जनम् । लोमान्यनेन जायन्ते नृणां पाणितलेष्वपि ॥” इति वैद्यकचक्रपाणिसंग्रहे क्षुद्ररोगाधिकारे ॥)

"https://sa.wiktionary.org/w/index.php?title=हस्तिदन्तः&oldid=181051" इत्यस्माद् प्रतिप्राप्तम्