सामग्री पर जाएँ

हस्तिनखः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हस्तिनखः, पुं, (हस्तिनो नख इव ।) पुर्द्वारि यत् कूटं तत् । इत्यमरः । २ । २ । १७ ॥ द्वारो- परि दुर्गार्थं यत् कूटं मृत्तिकाराशिस्तस्मिन् हस्तिनखो दम्दमा इति ख्यातः । दुर्गद्वारा- वरणार्थः क्रमनिम्नोन्नतखातोद्धृतमृत्कूटो हस्तिनख इत्यन्योऽपि । दुर्गपुरद्वारसमीपे युद्धार्थं यद्वहिरतटमन्तःसोपानयुक्तं मृत्कूटं यत्र स्थित्वा विपक्षेषु काण्डादिकं क्षिप्यते तत्र हस्तिनखो वुरुज इति ख्यात इत्यपरे । हस्तिनो नख इव हस्तिनखः । इति तट्टीकायां भरतः । (यथा, माघे । ३ । ६८ । “शनैरनीयन्त रयात् पतन्तो रथाः क्षितिं हस्तिनखादखेदैः । सयत्रसूतायतरश्मिभुग्न- ग्रीवाग्रसंसक्तगुगैस्तुरङ्गैः ॥”)

"https://sa.wiktionary.org/w/index.php?title=हस्तिनखः&oldid=181058" इत्यस्माद् प्रतिप्राप्तम्