हारः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हारः, पुं, ह्नियते मनो येन । हृ + घञ् ।) मुक्ता- माला । तत्पर्य्यायः । मुक्तावली २ । इत्यमरः २ । ६ । १०५ ॥ हारा ३ यष्टिः ४ यष्टी ५ लता ६ । इति शब्दरत्नावली ॥ (यथा, कुमारे । ५ । ८ । “विमुच्य सा हारमहार्य्यनिश्चया विलोलयष्टिप्रविलुप्तचन्दनम् । बबन्ध बालारुणबभ्रु वल्कलं पयोधरोत्सेधविशीर्णसंहति ॥” ह्रियन्ते प्राणा यत्रेति ।) युद्धम् । इति मेदिनी ॥ (हृ + भावे घञ् । हरणम् । यथा, भाग- वते । १० । ६३ । १७ । “हंस्युन्मर्गान् हिंसया वर्त्तमानान् जन्मैतत्ते भारहाराय भूमेः ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हारः [hārḥ], [हृ-कर्मणि घञ्]
Taking away, removal, seizing.
Conveying.
Abstraction, deprivation.
A carrier, porter.
A garland or necklace of pearls &c.; a necklace in general; हारो$यं हरिणाक्षीणां लुठति स्तन- मण्डले Amaru.1; पाण्ड्यो$यमंसार्पितलम्बहारः R.6.6;5.52; 6.16; Me.74; Ṛs.1.4;2.18.
War, battle.
(In math.) The denominator of a fraction.
A divisor.
(In prosody) A long syllable. -Comp. -आवलिः, -ली f.
a string of pearls; तरुणीस्तन एव शोभते मणिहारावलिरामणीयकम् N.2.44; हारावलीतरलकाञ्चितकाञ्चिदाम Gīt.11.
N. of a vocabulary of uncommon words by पुरुषोत्तमदेव. -गुटि(लि)का the bead or pearl of a necklace; ताम्रोदरेषु पतितं तरुपल्लवेषु निर्धौतहारगुलिकाविशदं हिमाम्भः R.5.7. -फलम्, -फलकम् a necklace of five strings. -यष्टिः f. a necklace, string of pearls; दधति पृथुकुचाग्रैरुन्नतैर्हारयष्टिम् Ṛs.2.25;1.8; Ki.9.2. -हारा a kind of reddish-brown grape.
