हार्द्द
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हार्द्दम्, क्ली, (हृदयस्य भावः कर्म्म वा । हृदय + “हायनान्तयुवादिभ्योऽण् ।” ५ । १ । १३० । इत्यण् । “हृदयस्य हृल्लेखयदणलासेषु ।” ६ । ३ । ५० । इति हृदादेशः ।) प्रेम । स्नेहः । इत्यमरः । १ । ७ । २७ ॥ (यथा, महाभारते । १३ । ७१ । ५२ । “गावो लोकांस्तारयन्ति क्षरन्त्यो गावश्चान्नं संजनयन्ति लोके । यस्तज्जानन् न गवां हार्द्दमेति स वै गन्ता निरयं पापचेताः ॥” अभिप्रायः । यथा, भागवते । १ । ७ । ५५ । “अर्ज्जुनः सहसाज्ञाय हरेर्हार्द्दमथासिना । मणिं जहार मूर्द्धन्यं द्विजस्य सह मूर्द्धजम् ॥”
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हार्द्द¦ न॰ हृदयस्य कर्म युवा॰ अण् हृदादेशः।
१ स्नेहे
२ प्रेमणि अमरः। हृदि भवः विदितो वा अण्।
३ हृदयस्थे
४ हृदयवेद्ये च त्रि॰ हार्दविद्या शा॰ भा॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हार्द्द¦ n. (-र्द्दं)
1. Affection, love.
2. Kindness.
3. Intention, meaning. E. हृद् the heart, अण् aff.