हास्तिकम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हास्तिकम्, क्ली, (हस्तिनां समूहः । हस्तिन् + “अचित्तहस्तिधेनोष्ठक् ।” ४ । २ । ४७ । इति ठक् ।) हस्तिसमूहः । इत्यमरः । २ । ८ । ३६ ॥ (यथा, महाभारते । ९ । ४९ । १० । “दत्वा च दानं विविधं नानारत्नसमन्वितम् । सगोहास्तिकदासीकं साजावि गतवान् वनम् ॥” हस्तिना चरतीति । “चरति ।” ४ । ४ । ८ । इति ठक् ।) हस्त्यारोहे, त्रि ॥
