सामग्री पर जाएँ

हास्यम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हास्यम्, क्ली, (हस + ण्यत् ।) रसविशेषः । स च कौतुकोद्भवम् । तत्पर्य्यायः । हासः २ हसः ३ । इत्यमरः । १ । १ । १९ ॥ हसनम् ४ घर्घरः ५ हासिका ६ । इति हेमचन्द्रः ॥ * ॥ अथ हासः । “विकृताकारवाग्वेशचेष्टादेः कुतुकाद् भवेत् । हास्या हासः स्थायिभावः श्वेतः प्रमथदैवतः ॥ विकृताकारवाक्चेष्टं यदालोक्य हसेज् जनः । तदत्रालम्बनं प्राहुः तच्चेष्टोद्दीपनं मतम् ॥ अनुभावोऽक्षिसङ्कोचवदनस्मेरतादिकः ! निद्रालस्यावहित्थाद्या अत्र स्युर्व्यभिचारिणः ॥ ज्येष्ठानां स्मितहसिते मध्यानां विहसिता- वहसिते च । नीचानामपहसितं तथातिहसितञ्च षड्भेदाः ॥ ईषद्विकासि कथनं स्मितं स्यात् स्यन्दिताधरम् । किञ्चिल्लक्ष्यद्विजं तत्र हसितं कथितं बुधैः ॥ मधुरस्वरं विहसितं सांसशिरः कम्पमवहसितम् । अपहसितं सास्राक्षविक्षिप्ताङ्गं भवत्यतिह- सितम् ॥” यथा मम । “गुरोर्गिरः पञ्च दिनान्यधीत्य वेदान्तशास्त्राणि दिनद्वयञ्च । अमी समाघ्राय च तर्कपादान् समागताः कुक्कुटमिश्रपादाः ॥” अस्य नाटकमेलकप्रभृतिषु परिपोषो द्रष्टव्यः । अत्र च । “यस्य हासः स चेत् क्वापि साक्षान्नैव निबध्यते । तथाप्येष विभावादिसामर्थ्यादुपलभ्यते ॥ अभेदेन विभावादि सावारण्यात् प्रतीयते । सामाजिकैस्तती हास्यरसोऽयमनुभूयते ॥” एवमन्येष्वपि रसेषु द्रष्टव्यम् । इति साहित्य- दर्पणे ३ परिच्छेदः ॥ * ॥ तस्य शुभाशुभलक्षणं यथा, -- “अकम्पं हसितं श्रेष्ठं मीलिताक्षमघापहम् । असकृद्धसितं दुष्येत् तत् सोन्मादस्य नैकधा ॥” इति गारुडे । ६५ । ३५ अध्यायः ॥ (हासयोग्ये, त्रि । यथा रघुः । २ । ४३ । संरुद्धचेष्टस्य मृगेन्द्र ! कामं हास्यं वचस्तद्यदहं विवक्षुः ॥”)

"https://sa.wiktionary.org/w/index.php?title=हास्यम्&oldid=181214" इत्यस्माद् प्रतिप्राप्तम्