सामग्री पर जाएँ

हाहाः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हाहाः, [स्] पुं, देवगन्धर्व्वविशेषः । इत्यमर- टीकायां भरतः ॥

हाहाः, पुं, देवगन्धर्व्वविशेषः । यथा, -- “हाहा हूहूश्चैवमाद्या गन्धर्व्वास्त्रिदिवौकसाम् ॥” इत्यमरः । १ । १ । ५५ ॥ देवतानां हाहाहूहूविश्वावसुतुम्बुरुचित्ररथ- प्रभृतयो गन्धर्व्वशब्दवाच्याः । उपास्योपासक- लक्षणसम्बन्धः । अव्युत्पन्नोऽयं हाहाशब्दः । हाहति शब्दं जहतीति त्रासुसिति हाको विच् इत्येवं व्युत्पन्ने तु शसाद्यचि धोरालोपो- ऽच्यघावित्यालोपः सात् । असि प्रत्यये हाहः- शब्दश्च सान्तोऽपि । गन्धर्व्वो हाहसि प्रोक्तो गन्धर्व्वो गायनेऽपि च । इति साहसाङ्कः । गन्धर्व्व पीतिहाहसोरिति वाचस्पतिः । हाहाशब्दोऽपि दृश्यते । हंहो हाहा हूहू च द्वौ वृषणश्चैव तुम्बुरुरिति व्याडिप्रभृतयः । इति भरतः ॥ * ॥ विस्मयशब्दे शोकशब्दे च व्य । यथा, -- “ततो हाहा कृतं सर्व्वं दैत्यसैन्यं ननाश तत् ॥ प्रहर्षञ्च परं जग्मुः सकला देवतागणाः ॥” इति मार्कण्डेयपुराणे देवीमाहात्म्ये । ३ । ४० ॥

"https://sa.wiktionary.org/w/index.php?title=हाहाः&oldid=181220" इत्यस्माद् प्रतिप्राप्तम्