सामग्री पर जाएँ

हिंसकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हिंसकः, पुं, (हिनस्ति तच्छीलः । हिंस + ण्वुल् ।) हिंस्रपशुः । अथर्व्वविद्ब्राह्मणः । शत्रुः । इति शब्दरत्नावली ॥

हिंसकः, त्रि, (हिंस + ण्वुल् ।) हिंसाकर्त्ता । तत्प्रर्य्यायः । घातुकः २ हिंस्रः ३ शरारुः ४ हन्ता ५ । इति शब्दरत्नावली ॥ स चाष्टविधः । यथा, -- “भोक्तानुमन्ता संस्कर्त्ता क्रयिविक्रयिहिंसकाः । उपहर्त्ता घातयिता हिंसकाश्चाष्टधाधमाः ॥” इति काशीखण्डम् ॥ * ॥ साध्वीभार्य्यादिहिंसने दोषो यथा, -- “भार्य्यां प्रियसखीं यस्तु साध्वीं हिंसति निर्घृणः । न तेऽमृतं प्राप्नुवन्ति हिंसका दुष्टयोनिजाः ॥” इति वाराहे ब्राह्मणदीक्षासूत्रनामाध्यायः ॥ * ॥ शरणागतादिहिंसकस्य अव्यवहार्य्यत्वं यथा, -- “शरणागतबालस्त्रीहिंसकान् संवसेन्न तु । चीर्णव्रतानपि सदा कृतघ्नसहितानिमान् ॥” इति प्रायश्चित्ततत्त्वधृतयाज्ञवल्क्यवचनम् ॥

"https://sa.wiktionary.org/w/index.php?title=हिंसकः&oldid=181230" इत्यस्माद् प्रतिप्राप्तम्