हिंस्रः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हिंस्रः, त्रि, (हिनस्तीति । हिंस + “नमि- कम्पीति ।” ३ । २ । १६७ । इति रः ।) हिंसाशीलः । तत्पर्य्यायः । शरारुः २ घातुकः ३ । इत्यमरः । ३ । १ । २८ ॥ हिंसकः ४ हन्ता ५ । इति शब्दरत्नावली ॥ शार्व्वरः ६ । इति जटाधरः ॥ * ॥ हिंस्राणां हिंसने दोषा- भावो यथा, -- “कृपा कार्य्या सतां शश्वदहिंस्रेषु च जन्तुषु । हिंसायां न हि दोषश्च हिंस्राणाञ्च व्रजेश्वर ! ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८५ अध्यायः ।
हिंस्रः, पुं, (हिनस्तीति । हिंस + रः ।) घारः । भीमसेनः । हरः । इत्युणादिकोषः ॥
