हिक्का

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिक्का, स्त्री, (हिक्क कूजे + गुरोश्चेत्यः । टाप् । यद्वा, हिक्क्यतेऽनयेति । हिक्क + करणे घञ् ।) रोगोपसर्गविशेषः । हि~च्की इति भाषा । इत्यमरः । ३ । ५ । ८ ॥ हे~कटी इति ख्यातो व्याधिविशेषः । हिक्वति कूजत्यनया हिक्का । हिक्क ञ कूजे सेमक्तात् सरोरिति अः । हिक्क- यते हिनस्तीति वा । हिक्व क ङ हिंसे पचा- हित्यादन् । हिगिति कृत्वा कायति शब्दायते साध्यत्वमाह । “अक्षीणश्चाप्यदीनश्च स्थिरधात्विन्द्रियश्च यः तस्य साधयितुं शक्या यमिका हन्त्यतो- ऽन्यथा ॥” * ॥ * ॥ अथ हिक्कायाश्चिकित्सा । “यत्किञ्चित् कफवातघ्नमुष्णं वातानुलोमनम् । भेषजं पानमन्नं वा हिक्वाश्वासेषु तद्धितम् ॥ हिक्काश्वामान्तरे पूर्ब्बं तैलाक्ते स्वेद उच्यते । ऊर्द्ध्वाधः शोधनं शक्ते दुर्ब्बले शमनं मतम् ॥ प्राणावरोधतर्ज्जनविस्मापनशीतवारिपरिषेकैः । चित्रैः कथाप्रयोगैः शमयेद्धिक्कां मनोऽभि- घातैश्च ॥ हिक्कार्त्तस्य पयश्छागं हितं नागरसाधितम् । मधु सौवर्च्चलोपेतं मातुलुङ्गरसं पिबेत् ॥ मधुकं मघुसंयुक्तं पिप्पली शर्क्करान्विता । नागरं गुडसंयुक्तं हिक्काघ्नं लावणत्रयम् ॥ कृष्णामलकशुण्डीनां चूर्णं मधु सितायुतम् । मुहुर्मुहुः प्रयोक्तव्यं हिक्काश्वासेषु तद्धितम् ॥ चूर्णं कणागैरिकयोः सक्षौद्रं चावलेहयेत् ॥ प्रबालशङ्खत्रिफलाचूर्णं मधुघृतप्लुतम् । पिप्पली गैरिकञ्चेति लेहो हिक्कानिवारणः ॥ नैपाल्या गोविषाणाद्वा कुष्ठात् सर्ज्जरसस्य वा । धूपं कुशस्य वा साज्यं पिबेद्धिक्कोपशान्तये ॥” नैपाली मनःशिला । “निर्धूमाङ्गारनिःक्षिप्तहिङ्गुमाषं बलोद्भवः । हिक्कापञ्चापि हन्त्याशु धूमः पीतो न संशयः ॥ हरेणूनां कणानाञ्च क्वाथो हिङ्गुसमन्वितः । हिक्काप्रशमनः श्रेष्ठो धन्वन्तरिवचो यथा ॥ चन्द्रशूरस्य वीजानि क्षिपेदष्टगुणे जले । यदा मृदूनि गृह्णीयात्ततो वाससि गालयेत् ॥ हिक्कातिवेगविकलस्तज्जलं पलमात्रया । पिबेत् पुनः पुनश्चापि हिक्कावश्यं प्रशाम्यति ॥” चन्द्रशूररसः ॥ * ॥ इति हिक्वाधिकारः । इति भावप्रकाशः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिक्का¦ स्त्री हिगिति शब्दं करोतीति पृषो॰। रोगभेदे (हेचकी)अमरः। तन्निदानादिकं भावप्र॰ उक्तं यथा
“अथ हिक्काधिकारः। तत्र हिक्कायाः विप्रकृष्टं नि-दानमाह
“विदाहिगुरुविष्टम्भिरूक्षाभिव्यन्दिभोजनैः। शीतपानाशनस्नानरजोधूमात्तथाऽनिलैः। व्यायाम-कर्मभाराध्ववेगाघातापतर्पणैः। हिक्का श्वासश्च का-सश्च नृणां समुपजायते”। अपतर्पणमनशनादि। संप्राप्तिमाह
“वायुः कफेनानुगतः पञ्च हिक्काः करोतिहि। अन्नजां यमलां क्षुद्रां गम्भीरां महतीं तथा”। सामान्यलक्षणमाह
“मुहुर्मुहुर्वायुरुदेति सस्वनः यकृत्-प्लिहान्त्राणि मुखादिवाक्षिपन्। सदोषवानाशु हिनस्त्यशून्यतस्ततस्तु हिक्केत्यमिधीयते बुधैः”। वायुरत्न सोदानःप्राणो बोद्धव्यः। उदेति ऊर्द्ध्वं याति। सस्वनःशब्दवान्। ऊर्द्ध्वगमनंविशिनष्टि यकृदित्यादि प्लिहइति शब्दोऽप्यस्ति दीर्घत्थ{??}कल्पात्। सुखादिति ल्यब्लोपे पञ्चमी तेन यकृत्प्लीहान्त्राणि मुखमानीय आक्षि-पन् निःसारयन् इवेत्यर्थः। वायुः दोषवान् दोषोऽत्रकफः तद्वान् वायुः कफेनानुगत इति सम्प्राप्तिः। हिन-स्त्रीति हिक्का पृषोदरादित्वाद्रूपसिद्धिः हिगितिशब्दं करोतीति वा। पूर्वरूपमाह
“कण्ठोरलोर्गुरुत्थञ्चवदनस्य कपायता। हिक्कानां पूर्वरूपाणि कुक्षेराटोपएव च”। वदनस्य कषायता वातात्। अन्नजालक्षण-माह
“पानान्नैरतिसंयुक्तैः सहसा पीडितोऽनलः। हिक्कयत्थूर्द्धगो भूत्वा तां विद्यादन्नजां भिषक्” अ-निलः प्राणो वायुः। यमलालिङ्गमोह
“चिरेस यम-[Page5426-a+ 38] लैर्वेगैर्या हिक्का सम्प्रवर्त्तते। कम्पयन्ती शिरोग्रीवांयमलां तां विनिर्दिशेत्”। क्षुद्रामाह
“विकृष्टकालैर्या वेगै-र्मन्दैः समभिवर्त्तते। क्षुद्रिका नाम सा हिक्का जत्रु-मूलं प्रधावति”। विकृष्टकालैः चिरेण। जत्रुः कक्षोरसोः सन्धिः। भमीरामाह
“नाभिप्रवृत्ता या हिक्काघोरा गम्भीरनादिनी। अनेकोपद्रववती गम्भीरा नामसा स्मृता”। अनेकोपद्रववती तृष्णाज्वरादियुक्ता। महतीमाह
“मर्माणि पीडयन्तीव सततं या प्रवर्त्तते। महाहिक्केति सा ज्ञेया सर्वगात्रप्रकम्पिनी”। मर्माणिवस्तिहृदयशिरःप्रभृतीनि। असाध्यत्वमाह
“आय-म्यते हिक्कितो यस्य देहो दृष्टिश्चोर्द्ध्वं ताम्यते नित्य-मेव। क्षीणोऽन्नद्विट् क्षौति यश्चातिमात्रं तौ द्वौ चान्त्यौवर्जयेद्धिक्कवन्तौ। आयम्यते विस्तार्य्यत इव तौ द्वावितिआयम्यत इत्यादिना नित्यमेवेत्यन्तेनैको हिक्कमानः। क्षीण इत्यादिनाऽतिमात्रमित्यन्तेनापरः। तौ द्वौ अन्त्यौच गम्भीरया महतीहिक्कया हिक्कमानौ वर्जयेत्। अपरञ्च
“अतिसञ्चितदोषस्य भक्तद्वेष कृशस्य च। व्या-धिभिः क्षीणदेहस्य वृद्धस्यातिव्यवायिनः। आयासाच्चसमुत्पन्ना हिक्का हन्त्याशु जीवितम्। यमिका चप्रलापार्तिमोहतृष्णासमन्विता”। साध्यत्वमाह
“अखीण-स्याप्यदीनस्य स्थिरधात्विन्द्रियस्य च। तस्य साधयितुंशक्या यमिका हन्त्यतोऽन्यथा”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिक्का¦ f. (-क्का)
1. Hiccough.
2. An indistinct sound. E. हिक्क् to hic- cough, affs. अङ् and टाप् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिक्का f. hiccup (cf , हेक्का) , sob , a spasmodic sound in the throat Sus3r. R. Hariv.

हिक्का f. an owl L.

"https://sa.wiktionary.org/w/index.php?title=हिक्का&oldid=506388" इत्यस्माद् प्रतिप्राप्तम्