सामग्री पर जाएँ

हिङ्गुपत्री

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हिङ्गुपत्री, स्त्री, हिङ्गुनः पत्रम् । हिङ्गुपत्रमिव पत्रमस्याः । इत्यमरटीकायां भरतः ॥ तत्- पर्य्यायः । कारवी २ पृथुला ३ पृथुः ४ बाष्पीका ५ कवरी ६ पृथ्वी ७ त्वक्पत्री ८ कर्व्वरी ९ । इति जटाधरः ॥ पृथ्वीका १० वाष्पिका ११ वाष्पका १२ वाष्पा १३ पत्री १४ । इति शब्दरत्नावली ॥ दीर्घिका १५ तज्वी १६ दारुपत्री १७ विल्वी १८ वाष्पी १९ । अस्या गुणाः । कटुत्वम् । तीक्ष्णत्वम् । तिक्तत्वम् । उष्णत्वम् । कफवातामकृमिहरत्वम् । रुच्यत्वम् पथ्यत्वम् । दीपनत्वम् । पाचनत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “हिङ्गुपत्री भवेद्रुच्या तीक्ष्णोष्णा पाचनी कटुः । हृद्वस्तिरुग्विबन्धार्शःश्लेष्मगुल्मानिलापहा ॥” इति भावप्रकाशः ॥

"https://sa.wiktionary.org/w/index.php?title=हिङ्गुपत्री&oldid=181263" इत्यस्माद् प्रतिप्राप्तम्