सामग्री पर जाएँ

हिण्डीरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हिण्डीरः, पुं, (हिण्डते इतस्ततो गच्छतीति । हिण्ड + ईरन् । इत्युणादिवृत्तौ उज्ज्वलदत्तः । ४ । ३० ।) समुद्रफेनः । इत्यमरः । २ । ९ । १०५ ॥ (यथा, साहित्यदर्पणे । १० । ६८३ । “एतद्विभाति चरमाचलचूडचूम्बि हिण्डीरपिण्डरुचिशीतमरीचिविम्बम् । उज्ज्वालितस्य रजनीं मदनानलस्य धूमं दधत्प्रकटलाच्छनकैतवेन ॥”) वार्त्ताकुः । पुरुषः । इति मेदिनी ॥ रुचकम् । इत्युणादिकोषः ॥ (क्ली, दाडिमम् । इत्युज्ज्वल- धृतहारावली । ४ । ३० ॥)

"https://sa.wiktionary.org/w/index.php?title=हिण्डीरः&oldid=181307" इत्यस्माद् प्रतिप्राप्तम्