सामग्री पर जाएँ

हितोपदेशः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हितोपदेशः, पुं, (हितानामुपदेशः ।) सत्परा- मर्शदानम् । यथा, महाभारते । १ । २ । १०१ । “हितोपदेशश्च पथि धर्म्मराजस्य धीमतः । विदुरेण कृतो यत्र हितार्थं म्लेच्छभाषया ॥” हितानामुपदेशो यत्र ।) विष्णुशर्म्मकृतमित्र- लाभसुहृद्भेदविग्रहसन्धिनामकथाचतुष्टयात्मक- नीतिशास्तम् । यथा, -- “सिद्धिः साध्ये सतामस्तु प्रसादात्तस्य धूर्जटेः । जाह्नवीफेनरेखेव यन्मूर्द्ध्नि शशिनः कला ॥ श्रुतो हितोपदेशोऽयं पाटवं संस्कृतोक्तिषु । वाचां सर्व्वत्र वैचित्र्यं नीतिविद्यां ददाति च ॥” इति हितोपदेशप्रथमश्लोकद्वयम् ॥

"https://sa.wiktionary.org/w/index.php?title=हितोपदेशः&oldid=181324" इत्यस्माद् प्रतिप्राप्तम्