सामग्री पर जाएँ

हिन्ताल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हिन्तालः, पुं, वृक्षविशेषः । हे~ताल इति भाषा । तस्य फलं उद्वेगम् । इत्यमरः । २ । ४ । १६९ ॥ तत्पर्य्यायः । पूगरोटः २ । तत्फलम् किरिटि । इति त्रिकाण्डशेषः ॥ * ॥ तस्य पर्य्यायान्तरं गुणाञ्च । “हिन्तालः स्थूलतालश्च बन्धपत्रो बृहद्दलः । स्थिरपत्रो द्विधालेख्यः शिरापत्रोऽस्थिराङ्घ्रिकः ॥ गर्भस्रावी नीलतालो भीषणो बहुकण्टकः । अम्लसारो बृहत्तालः स्याच्चतुर्द्दशधाभिधः ॥ हिन्तालो मधुराम्लश्च कफकृत् पित्तदाहनुत् । श्रमतृष्णापहारी च शिशिरो वातदोषकृत् ॥” इति राजनिर्घण्टः ॥ (व्यवहारोऽस्य यथा, -- “गुडूचीबालहिन्तालवानरीनीलझिण्टिकाः ॥” इति वैद्यकरसेन्द्रसारसंग्रहे कुष्ठाधिकारे माणिक्यरसे ॥) स तु तृणराजविशेषः । यथा, क्रियाकौमुद्यां वशिष्ठः । “गुवाकतालहिन्तालास्तथा ताडी च केतकी । खर्ज्जूरनारिकेलौ च सप्तैते तृणराजकाः ॥ तृणराजशिरापत्रैर्यः कुर्य्याद्दन्तधावनम् । तावद्भवति चण्डालो यावद्गां नैव पश्यति ॥” इत्याह्निकाचारतत्त्वम् ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हिन्ताल पुं।

तालभेदः

समानार्थक:हिन्ताल,ताली

2।4।169।2।2

घोण्टा तु पूगः क्रमुको गुवाकः खपुरोऽस्य तु। फलमुद्वेगमेते च हिन्तालसहितास्त्रयः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हिन्ताल¦ पु॰ हीनस्तालो यस्मात पृषो॰। (हें ताल) वृक्षेअमरः
“हिन्तालो मधुराम्लश कफकृत् पित्तदाहनुत्। श्रम॰ ष्णापहारी च शिशिरो वातदोषकृत्” राजनि॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हिन्ताल¦ m. (-लः) The marshy-date tree, (Phœnix or Elate paludosa.) E. हीन defective, i. e. small, ताल the palm, deriv. irr.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हिन्तालः [hintālḥ], A kind of palm; केसरहिन्तालबद्धबहलच्छायम् Bk.13.33.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हिन्ताल m. the marshy date tree , Phoenix or Elate Paludosa(See. तालand बृहत्-ताल) Hariv. Va1s. Ja1takam.

"https://sa.wiktionary.org/w/index.php?title=हिन्ताल&oldid=271911" इत्यस्माद् प्रतिप्राप्तम्