हिरण्यकामधेनु
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हिरण्यकामधेनुः, स्त्री, (हिरण्यनिर्म्मिता काम- धेनुर्यत्र ।) षाडशमहादानान्तर्गतमहादान- विशेषः । यथा, -- मत्स्य उवाच । “अथातः संप्रवक्ष्यामि कामधेनुविधिं परम् । सर्व्वकामप्रदं नॄणां महापातकनाशनम् ॥ लोकेशावाहनं तद्वद्धोमकार्य्याधिवासनम् । तुलापुरुषवत् कार्य्यं कुण्डमण्डपवेदिकम् ॥ स्वल्पेष्वेकाग्निवत् कुर्य्याद्गुरुरेकः समाहिताः । काञ्चनस्यातिशुद्धस्य धेनुं वत्सञ्च कारयेत् ॥ उत्तमा पलसाहस्रा तदर्द्धेन तु मध्यमा । कनोयसो तदर्द्धेन कामधेनुः प्रकीर्त्तिता । शक्तितस्त्रिपलादूर्द्ध्वं अशक्तोऽपीह कारयेत् ॥ वेद्यां कृष्णाजिन न्यस्य गुडपस्थसमन्वितम् । न्यसेदुपरि तां धेनुं महारत्नैरलङ्कताम् ॥ कुम्भाष्टकसमोपेतां नानाफलसमन्विताम् । तथाष्टादशधान्यानि समन्तात् परिकल्पयेत् ॥ इक्षुदण्डाष्टक तद्वत् नासाफलविभूषितम् । भाजनञ्चासनं तद्वत्ताम्रदोहनकं तथा ॥ कौषेयवस्त्रद्वयमंप्रयुक्तां दीपातपत्राभरणाभिरामाम् । सचामरां कुण्डलिनीं सघण्टां मणित्रिकां चन्द्रकरौप्यपादाम् ॥ सरैश्च सर्व्वैः पुरतोऽभिजुष्टां हरिद्रया पुष्पफलैरनेकैः । अजाजिकुस्तुम्बुरुशर्कराभि- र्व्वितानकञ्जोपरि पञ्चवर्णम् ॥ स्नानं ततो मङ्गलवेदघोषैः प्रदक्षिणीकृत्य स पुष्पहस्तः । आवाहयेत् तां गुडधेनुमन्त्रै- र्द्विजाय दद्यादथ दर्भपाणिः ॥ त्वं सर्व्वदेवगणमन्दिरमङ्गभूता विश्वेश्वरत्रिपथगोदधिपर्व्वतानाम् । त्वद्दानशस्त्रशकलीकृतपातकौघः प्राप्तोऽस्मि निर्व्वृतिमतीव परां नमामि ॥ लोके यथेप्सितफलार्थविधायिनीं त्वा- मासाद्य को हि भवदुःखमुपैति मर्त्यः । संसारदुःखशमनाय यतस्व कामं त्वां कामधेनुमिति वेदविदो वदन्ति ॥ आमन्त्र्य शीलकलरूपगुणान्विताय विप्राय यः कनकधेनुमिमां प्रदद्यात् । प्राप्नोति धाम स पुरन्दरदेहजुष्टं कन्यागणैः परिवृतः पदमिन्दुमौलेः ॥” इति मात्स्ये हिरण्यकामधेनुप्रदानिको नाम २५३ अध्यायः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हिरण्यकामधेनु¦ स्त्री विधानेन हिरण्यरचिता कामधेनुः। तुलादिषोडशमहादानमध्ये दानार्थं हिरण्येन कल्पि-तायाम्
१ धेनौ उपचारात्
२ तद्दाने च। तद्दानविधिः
“अथातः संप्रवक्ष्यामि कामधेनुविधिं षरम्। सर्वकाम-प्रदं नॄणां महापातकनाशनम्। लोकेशावाहनं तद्व-द्धोमः कार्य्योऽधिवासनम्। तुलापुरुषवत् कुर्य्यात् कुण्ड-मण्डषवेदिकाः। स्वल्पेष्वेकाग्निमत् कुर्य्यात् गुरुरेव स-माहितः”। कुण्डमण्डपवेदिका इत्युपलक्षणम्। इहहि देशकालवृद्धिश्राद्धशिवादिपूजाब्राह्मणवाचनगुरु ऋ-त्विग्वरणमधुषर्कदानयेदिकोपरिचक्रलेखनपञ्चवर्णविता-नतोरणपताकादिकं सर्वं मत्स्यपुराणोक्ततुलापुरुष-दानविहितं वेदितव्यम्। स्वल्पेष्वेकाग्निमदिति,एकाग्निमत्करणं व्याख्यातम्।
“काञ्चनस्यातिशुद्धस्यधेनुं वत्सञ्च कारयेत्। उत्तमा पलसाहस्रैस्तदर्द्धेन तुमध्यमा। कनीयसी तदर्द्धेन कामधेनुः प्रकीर्त्तिता। शक्तितस्त्रिपलादूर्द्ध मशक्तोऽपीह कारयेत्”। अत्र यद्यपिवत्सपरिमाणमनुक्तं तथापि कामधेनुविधानवत् तप्त-काञ्चनचतुर्थांशेन वत्सः कल्पनीयः। समस्तथेनुपरिमित-द्रव्यनिष्कृष्टवत्सनिर्माणव्याप्तिदर्शनादिहापि धेनुदानत्वा-विशेषात् तथैव गिश्चीयते। तथा च गुडधेन्वादिषु
“तच्च-तुर्थांशेन वत्सः स्यादिति” तत्र तत्र वक्ष्यते।
“वेद्यांकृष्णाजिनं न्यस्य गुडप्रस्थसमन्वितम्। न्यसेदुपरि तांधेनुं महारत्नैरलङ्कृताम्। कुम्भाष्टकसमोपेतां नाना-फलसमन्विताम्”। कल्पतरुदाने, प्रस्थो व्याख्यातः।
“म-हारत्नानि पद्मरागप्रमृतीनि,
“वत्सं दक्षे तु विन्यसे-दिति” क्वचित्पाठः, नानाफलानि गोगजवाजिस्त्री-पुरुषप्रभृतीनि सौबर्णानि कल्पतरुदानोक्तानि।
“तथा-ष्टादश धान्यानि समन्तात् परिकल्पयेत्। इक्षुदण्डाष्टकंतद्वन्नानाफलसमन्वितम्। भाजनं चासनं तद्वत् ताम्र-दोहनकं तथा”। अष्टादश धान्यानि परिभाषायां द्रष्ट-व्यानि नानाफलानि मातुलिङ्गादीनि।
“कौशेयवस्त्रद्वयसम्प्रयुक्ताम् दीपातपत्राभरणाभिरामाम्। सचा-मरां कुण्डलिनीं मघण्टां गणित्रिकापादुकरौप्यपादाम्। [Page5429-a+ 38] रसैश्च सर्वैः परितोऽभिजुष्टां हरिद्रया पुष्पफलैरनेकैः। अजाजिकुस्तुम्बुरुशर्कराभिः वितानकं चोपरि पञ्च-वर्णम्। स्नातस्ततो मङ्गलवेदघोषैः प्रदक्षिणीकृत्यसपुष्पहस्तः। आवाहयेत् ताङ्गडधेनुमन्त्रैः द्विजायदद्यादथ दर्भपाणिः” हेमा॰ दा॰ मत्स्यपु॰।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हिरण्यकामधेनु/ हिरण्य--काम-धेनु f. a golden figure representing the काम-धेनु(one of the 16 महा-दानs ; See. महा-दान, तुला-पुरुष) , चित्.
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--gift of a cow and a calf in gold (3 to १०० palas in weight) on an auspicious day with preliminary prayers to deities; the giver enjoys heaven. M. २७४. 8.
