हिरण्यकामधेनुः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हिरण्यकामधेनुः, स्त्री, (हिरण्यनिर्म्मिता काम- धेनुर्यत्र ।) षाडशमहादानान्तर्गतमहादान- विशेषः । यथा, -- मत्स्य उवाच । “अथातः संप्रवक्ष्यामि कामधेनुविधिं परम् । सर्व्वकामप्रदं नॄणां महापातकनाशनम् ॥ लोकेशावाहनं तद्वद्धोमकार्य्याधिवासनम् । तुलापुरुषवत् कार्य्यं कुण्डमण्डपवेदिकम् ॥ स्वल्पेष्वेकाग्निवत् कुर्य्याद्गुरुरेकः समाहिताः । काञ्चनस्यातिशुद्धस्य धेनुं वत्सञ्च कारयेत् ॥ उत्तमा पलसाहस्रा तदर्द्धेन तु मध्यमा । कनोयसो तदर्द्धेन कामधेनुः प्रकीर्त्तिता । शक्तितस्त्रिपलादूर्द्ध्वं अशक्तोऽपीह कारयेत् ॥ वेद्यां कृष्णाजिन न्यस्य गुडपस्थसमन्वितम् । न्यसेदुपरि तां धेनुं महारत्नैरलङ्कताम् ॥ कुम्भाष्टकसमोपेतां नानाफलसमन्विताम् । तथाष्टादशधान्यानि समन्तात् परिकल्पयेत् ॥ इक्षुदण्डाष्टक तद्वत् नासाफलविभूषितम् । भाजनञ्चासनं तद्वत्ताम्रदोहनकं तथा ॥ कौषेयवस्त्रद्वयमंप्रयुक्तां दीपातपत्राभरणाभिरामाम् । सचामरां कुण्डलिनीं सघण्टां मणित्रिकां चन्द्रकरौप्यपादाम् ॥ सरैश्च सर्व्वैः पुरतोऽभिजुष्टां हरिद्रया पुष्पफलैरनेकैः । अजाजिकुस्तुम्बुरुशर्कराभि- र्व्वितानकञ्जोपरि पञ्चवर्णम् ॥ स्नानं ततो मङ्गलवेदघोषैः प्रदक्षिणीकृत्य स पुष्पहस्तः । आवाहयेत् तां गुडधेनुमन्त्रै- र्द्विजाय दद्यादथ दर्भपाणिः ॥ त्वं सर्व्वदेवगणमन्दिरमङ्गभूता विश्वेश्वरत्रिपथगोदधिपर्व्वतानाम् । त्वद्दानशस्त्रशकलीकृतपातकौघः प्राप्तोऽस्मि निर्व्वृतिमतीव परां नमामि ॥ लोके यथेप्सितफलार्थविधायिनीं त्वा- मासाद्य को हि भवदुःखमुपैति मर्त्यः । संसारदुःखशमनाय यतस्व कामं त्वां कामधेनुमिति वेदविदो वदन्ति ॥ आमन्त्र्य शीलकलरूपगुणान्विताय विप्राय यः कनकधेनुमिमां प्रदद्यात् । प्राप्नोति धाम स पुरन्दरदेहजुष्टं कन्यागणैः परिवृतः पदमिन्दुमौलेः ॥” इति मात्स्ये हिरण्यकामधेनुप्रदानिको नाम २५३ अध्यायः ॥
