सामग्री पर जाएँ

हिरण्यगर्भः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हिरण्यगर्भः, (हिरण्यं हेममयाण्डं गर्भ उत्- पत्तिस्थानमस्य ।) ब्रह्मा । इत्यमरः । १ । १ । १६ ॥ हिरण्यं गर्भ उत्पत्तिस्थानमस्य हिरण्यस्य गर्भो भ्रूण इति वा हिरण्यगर्भः । एतस्याण्डं हिरण्य- वर्णमभवत् । तथा च स्मृतिः । “हिरण्यवर्ण्यवर्णमभवत्तदण्डमुदकेशयम् । तत्र जज्ञे स्वयं ब्रह्मा स्वयम्भुरिति विश्रुतः ॥” इति । उपचारात् हिरण्यवर्णमण्डं हिरण्यम् । इति भरतः ॥ अन्यच्च । “हिरण्यगर्भोऽभूद्वद्ध्या तेन बुद्धिर्म्मता असौ ।” पादुकोपानहं छत्रं चामरासनभोजनम् । ग्रामं वा विषयं वापि यदन्यद्दयितं भवेत् ॥ अनेन विधिना यस्तु पुण्येऽह्नि विनिवेदयेत् । हिरण्यगर्भदानं स ब्रह्मलोके महीयते ॥ पुरेषु लोकपालानां प्रतिमन्वन्तरं वसेत् । कल्पकोटिशतं यावत् ब्रह्मलोके महीयते ॥ कलिकलुषविमुक्तः सेवितः सिद्धसंघै- रमरचमरमालावीज्यमानोऽप्सरोभिः । पितृशतमथ बन्धून् पुत्त्रपौत्त्रप्रपौत्त्रा- नपि नरकनिमग्नांस्तारयेदेक एव ॥ इति पठति य इत्थं यः शृणोतीह सम्यक् मधुमुररिपुलोके पूज्यते सोऽपि सिद्धैः । मतिमपि च जनानां यो ददाति प्रियार्थं विबुधपतिजनानां नायकः स्यादमोघम् ॥” इति मात्स्ये २७५ अध्यायः ॥ * ॥ विष्णुः । इति तस्य सहस्रनामस्तोत्रम् ॥ सूक्ष्म- शरीरसमष्ट्युपहितचैतन्यम् । तत्पर्य्यायः । प्राणात्मा २ सूत्रात्मा ३ । इति वेदान्तसारः ॥

"https://sa.wiktionary.org/w/index.php?title=हिरण्यगर्भः&oldid=181434" इत्यस्माद् प्रतिप्राप्तम्