हिरण्यरेताः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हिरण्यरेताः, [स्] पुं, (हिरण्यं रेतो यस्य ।) अग्निः । (यथा, महाभारते । १ । ५५ । १० । “विभावसुश्चित्रभानुर्महात्मा हिरण्यरेता हुतभुक् कृष्णवर्त्मा ॥”) चित्रकवृक्षः । इत्यमरः । १ । १ । ५८ ॥ सूर्य्यः । इति मेदिनी ॥ शिवः । इति शब्दरत्नावली ॥ * ॥ अग्नेस्तन्नामकारणं यथा, -- “यत् पीतं वीतिहोत्रेण वीर्य्यं त्यक्तं पिना- किनः । तेनाक्रान्तोऽभवद्ब्रह्मन् ! मन्दतेजा हुताशनः ॥ ततो जगाम देवानां सकाशममितद्युतिः । दैवतैः प्रहितस्तूर्णं ब्रह्मलोकं जगाम ह ॥ स गच्छन् कुटिलां देवीं ददर्श पथि पावकः । तां दृष्ट्वा प्राह चाधत्स्व तेजो यन्मम दुर्द्धरम् ॥ महेश्वरेण संत्युक्तं निर्द्दहेद्भुवनान्यपि । तद्धारणाच्च कुटिले ! पुत्त्रो धन्यो भविष्यति ॥ इत्यग्निना सा कुटिला श्रुत्वा सुतमनुत्तमम् । प्रक्षिप्तमात्रं जग्राह तेज ऐशं महापगा । ततस्त्वधारयद्देवी शार्व्वं तेजः स्वपूपुषत् । हुताशनोऽपि च भयाद्यत्र तत्र परिभ्रमन् ॥ पञ्चवर्षसहस्राणि ह्यध्यास्ते हव्यभुक् ततः । मांसमस्थीनि रक्तानि मेदोमज्जत्वचस्तथा ॥ रोमाणि चाक्षिकेशाद्याः सर्व्वे जाता हिर- ण्मयाः । हिरण्यरेता लोकेऽस्मिन् विख्यातः पावक- स्तदा ॥” इति वामने ५४ अध्यायः ॥
