हिरण्याक्षः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हिरण्याक्षः, पुं, (हिरण्यवत् पीते अक्षिणी यस्य । अच् समासे ।) आद्यदैत्यविशेषः । स च दितिगर्भे कश्यपाज्जातः वराहरूपिविष्णुना हतः । यथा, -- “दितिस्तु भर्त्तुरादेशादपत्यपरिशङ्किनी । पूर्णे वर्षशते साध्वी पुत्त्रौ प्रसुषुवे यमौ ॥ प्रजापतिर्नाम तयोरकार्षीत् यः प्राक् स्वदेहात् यमयोरजायत । तं वै हिरण्यकशिपुं विदुः प्रजा यं तं हिरण्याक्षमसूत साग्रतः ॥” इति श्रीभागवते ३ स्कन्धे १७ । २ ; १८ ॥ “हतो हिरण्यकशिपुर्हरिणा सिंहरूपिणा । हिरण्याक्षो धरोद्धारे बिभ्रता शौकरं वपुः ॥” इति तत्रैव ७ स्कन्धे १ अध्याये ४० श्लोकः ॥ अपिच । “तेजस्वी नाम वै शक्रो हिरण्याक्षो रिपुः स्मृतः । हतो वराहरूपेण हिरण्याक्षोऽथ विष्णुना ॥” इति गारुडे । ८७ । ३० ॥ (पीठस्थानविशेषः । यथा, देवीभागवते । ७ । ३० । ६४ । “उत्पलाक्षी सहस्राक्षे हिरण्याक्षे महोत्- पला ॥”)
