हिरण्याश्व
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हिरण्याश्वः, पुं, (हिरण्यस्य अश्वो यत्र ।) तुलापुरुषादि-षोडशमहादानान्तर्गतमहादान- विशेषः । यथा, -- मत्स्य उवाच । “अथातः संप्रवक्ष्यामि हिरण्याश्वविधिं परम् । यस्य प्रदानाद्भुवने आनन्त्यफलमश्नुते ॥ पुण्यां तिथिं समासाद्य कृत्वा ब्राह्मणवाचनम् । लोकेशावाहनं कुर्य्यात्तुलापुरुषदानवत् ॥ ऋत्विङ्मण्डपसम्भारभूषणाच्छादनादिकम् । स्वल्पेष्वेकाग्निवत् कुर्य्याद्धेमवाजिमखं बुधः ॥ स्थापयेद्वेदिमध्ये तु कृष्णाजिनतिलोपरि । कौशेयवस्त्रसंवीतं कारयेद्धेमवाजिनम् ॥ शक्तितस्त्रिपलादूर्द्धमासहस्रपलाद्बुधः । पादुकोपानहच्छत्रचामरासनभाजनैः ॥ पूर्णकुम्भाष्टकोपेतं माल्येक्षुफलसंयुतम् । शय्यां सोपस्करां तद्वद्धेममार्त्तण्डसंयुताम् ॥ ततः सर्व्वौषधीस्नातः स्नापितो वेदपुङ्गवैः । इममुच्चारयेन्मन्त्रं गृहीतकुसुमाञ्जलिः ॥ नमस्ते सर्व्वदेवेश ! वेदाहरणलम्पट ! । वाजिरूपेण मामस्मात् पाहि संसारसागरात् ॥ त्वमेव सप्तधा भूत्वा छायारूपेण भास्करम् । यत्नाद्भ्रमयसे लोकानतः पाहि सनातन ! ॥ एवमुच्चार्य्य गुरवे तमश्वं विनिवेदयेत् । दत्त्वा पापक्षयाद्भानोर्लोकमभ्येति श्वाश्वतम् ॥ गोभिर्विभवतः सर्व्वानृत्विजश्चापि पूजयेत् । सर्व्वधान्योपकरणं गुरवे विनिवेदयेत् ॥ सर्व्वशय्यादिकं दत्त्वा भुञ्जीतातैलमेव हि । पुराणश्रवणं तद्वत् कारयेद्भोजनादनु ॥ इमं हिरण्याश्वविधिं करोति यः पुण्यं समासाद्य दिनं नरेन्द्र ! । विमुक्तपापः स पुरं मुरारेः प्राप्नोति सिद्धैरभिपूजितः सन् ॥ इति पठति य इत्थं हेमवाजिप्रदानं सकलकलुषमुक्तः सोऽश्वयुक्तेन भूयः । कनकमयविमानेनार्कलोकं प्रयाति त्रिदशपतिबधूभिः पूज्यते योऽथ पश्येत् ॥ यो वा शृणोति पुरुषोऽल्पधनः स्मरेद्वा हेमाश्वदानमभिनन्दयतीह लोके । सोऽपि प्रयाति हतकल्मषशुद्धदेहः स्थानं पुरन्दरमहेश्वरलोकजुष्टम् ॥” इति मात्स्ये हिरण्याश्वप्रदानिको नाम २८० अध्यायः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हिरण्याश्व¦ पु॰ हिरण्यनिर्मितोऽश्वः। तुलादिषोडशमहा[Page5430-b+ 38] दानगध्ये दानार्थं स्वर्णादिना
१ कल्पितेऽश्वे
२ तदाने च।
“अथातः संप्रवक्ष्यामि हिरण्याश्वविधि परम्। यस्य प्र-सादाद्भुवनमनन्तफलमश्नुते। पुण्यं तिथिमथ साद्य कृत्वाब्राह्मणवाचनम्। लोकेशावा{??}न कुर्य्यात् तुलापुरुष-दानवत्। ऋत्विगमण्डपसम्भ{??}णाच्छादनादिकम्। स्वल्पेष्वेकाग्निमत् कुर्य्याद्धेमवाजिमख बुधः” अत्रादि-शब्देन देशकालवृद्धिश्राद्धशिवादिपुजागुरुऋत्विग्वरण-मधुपकेदानवेदिकापरिचक्रलेखमवितानतोरणताकाधि-वासनादि मन{??}पुराणोक्ततुलापुरुषदानविचितं कंगृह्यते,स्वल्पेष्वेकाग्निमदिति, व्याख्यातं
“स्थापयेद्वेतदमध्ये तुकृष्णाजनतिलोपरि” कृष्णाजिननिहि{??}दोणपरिमित-तिलोपरीति विज्ञेयम्।
“कौशेयवस्त्रसं{??}तं कारयेद्धे-मवाजिनम्। शक्तितस्त्रिपलादूद्ध मासहसप{??}द् बुधः। पादुकोपानहच्छत्रचामरास{??}भाजनैः। पूर्णकुम्भाष्टको-पेतं माल्यक्षुफलसंयुतम्। शय्यां सोपस्करान्तद्वद्धेममार्त्त-ण्डसंयुतम्”। शय्योपस्करा विविधास्तरणापधानवस्त्र-फलपुष्पकुङ्कुमकर्पूरागुरुचन्दनताम्बूलदर्पणकङ्कतिकाचा-मरव्यजनासनपतद्ग्रहस्थितपात्रासिमुद्रिकोपानहयुगल-ताम्रघटिकादिजलपात्रदीपिकावितानादयः। मार्त्तण्ड-संयुतामिति, उपर्य्यारूढसूर्य्यं सौवर्णमश्वं कुर्य्यादित्यर्थः। सूर्य्यलक्षणमुक्तं ब्रह्माण्डदाने
“ततः सर्वौषधि-स्नानस्नापितो वेदपुङ्गवैः। इममुच्चारयेन्मन्त्रं गृहीत-कुसुमाञ्जलिः”। इहापि पूर्वेद्युरधिवासनं विधायद्वितीयदिवसे पूर्ववत् पुण्याहवाचनादिपूर्णाहुतिपर्य्यन्तंकर्म, गुरुः समापयेत्। अथ सर्वौषधिजलस्रातः शुक्ला-म्बरो यजमानस्त्रिःप्रदक्षिणोकृत्य वक्ष्यमाणमन्त्रमुदी-रयेत्।
“नमस्ते सर्वदेवेश! वेदाहरणलम्पट!। वाजिरू-पेण मामस्मात् पाहि संसारसागरात्। त्वमेव सप्तधाभूत्वा छन्दोरूपेण भास्करम्। यस्मात्{??}मयसे लो-कानतः पाहि सनातन!। एवमुच्चार्य्य गुरवे तमश्वंविनिवेदयेत्। दत्त्वा पापक्षयाद्भानोर्लोकमभ्येति शाश्व-तम्। गोभिर्विभवतः सर्वानृत्विजश्चाभिपूजयेत्। सर्व-धान्योपकरणं गुरवे विनियेदयेत। सर्वं शय्यादिकंदत्त्वा मुञ्जीतातैलमेव हि। पुराणश्रवणं तद्वत् कार-येद्भोजनानादनु”। दानवाक्यञ्च पूर्ववदनुसन्धेयम्, अनु-क्तदक्षिणेषु सुवर्णं दक्षिणेति, यथाशक्ति सुवर्णदक्षिणा,विभवतः स्वविभवानुसारण सर्वान् सदस्यादीनृत्विजश्चगोभिः पूजयेत्, सर्वधान्योपकरणमिति विनियोगात्[Page5431-a+ 38] पूर्वं धान्यासादनं गम्यते, गुरवे निवेदयेदिति, स्वल्पद्रव्यदाने आचार्य्यायैव अश्वं प्रदाय ऋत्विग्भ्यो यथा-शक्ति सुवर्णादि दद्यात्। सहस्रपलादिद्रव्यदाने तु प्रकृति-वद्व्यवस्था, स्वल्पतरेष्वेकाग्निक्षेऽपि द्रष्टव्या” हेमा॰ दा॰
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हिरण्याश्व/ हिरण्या m. the image of a horse made of -ggold (one of the 16 महा-दानs See. ) Cat.
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--the gift of a golden horse in an auspicious hour leads one to the world of the sun. M. २७४. 8; २८०. 1-१५.
