हिरण्याश्वः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हिरण्याश्वः, पुं, (हिरण्यस्य अश्वो यत्र ।) तुलापुरुषादि-षोडशमहादानान्तर्गतमहादान- विशेषः । यथा, -- मत्स्य उवाच । “अथातः संप्रवक्ष्यामि हिरण्याश्वविधिं परम् । यस्य प्रदानाद्भुवने आनन्त्यफलमश्नुते ॥ पुण्यां तिथिं समासाद्य कृत्वा ब्राह्मणवाचनम् । लोकेशावाहनं कुर्य्यात्तुलापुरुषदानवत् ॥ ऋत्विङ्मण्डपसम्भारभूषणाच्छादनादिकम् । स्वल्पेष्वेकाग्निवत् कुर्य्याद्धेमवाजिमखं बुधः ॥ स्थापयेद्वेदिमध्ये तु कृष्णाजिनतिलोपरि । कौशेयवस्त्रसंवीतं कारयेद्धेमवाजिनम् ॥ शक्तितस्त्रिपलादूर्द्धमासहस्रपलाद्बुधः । पादुकोपानहच्छत्रचामरासनभाजनैः ॥ पूर्णकुम्भाष्टकोपेतं माल्येक्षुफलसंयुतम् । शय्यां सोपस्करां तद्वद्धेममार्त्तण्डसंयुताम् ॥ ततः सर्व्वौषधीस्नातः स्नापितो वेदपुङ्गवैः । इममुच्चारयेन्मन्त्रं गृहीतकुसुमाञ्जलिः ॥ नमस्ते सर्व्वदेवेश ! वेदाहरणलम्पट ! । वाजिरूपेण मामस्मात् पाहि संसारसागरात् ॥ त्वमेव सप्तधा भूत्वा छायारूपेण भास्करम् । यत्नाद्भ्रमयसे लोकानतः पाहि सनातन ! ॥ एवमुच्चार्य्य गुरवे तमश्वं विनिवेदयेत् । दत्त्वा पापक्षयाद्भानोर्लोकमभ्येति श्वाश्वतम् ॥ गोभिर्विभवतः सर्व्वानृत्विजश्चापि पूजयेत् । सर्व्वधान्योपकरणं गुरवे विनिवेदयेत् ॥ सर्व्वशय्यादिकं दत्त्वा भुञ्जीतातैलमेव हि । पुराणश्रवणं तद्वत् कारयेद्भोजनादनु ॥ इमं हिरण्याश्वविधिं करोति यः पुण्यं समासाद्य दिनं नरेन्द्र ! । विमुक्तपापः स पुरं मुरारेः प्राप्नोति सिद्धैरभिपूजितः सन् ॥ इति पठति य इत्थं हेमवाजिप्रदानं सकलकलुषमुक्तः सोऽश्वयुक्तेन भूयः । कनकमयविमानेनार्कलोकं प्रयाति त्रिदशपतिबधूभिः पूज्यते योऽथ पश्येत् ॥ यो वा शृणोति पुरुषोऽल्पधनः स्मरेद्वा हेमाश्वदानमभिनन्दयतीह लोके । सोऽपि प्रयाति हतकल्मषशुद्धदेहः स्थानं पुरन्दरमहेश्वरलोकजुष्टम् ॥” इति मात्स्ये हिरण्याश्वप्रदानिको नाम २८० अध्यायः ॥
