सामग्री पर जाएँ

हिरण्याश्वरथ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हिरण्याश्वरथः, पुं, (हिरण्याश्वः सुवर्णघोटकयुक्तः रथो यत्र ।) षोडशमहादानान्तर्गतमहादान- विशेषः । यथा, मात्स्ये । “आद्यन्तु सर्व्वदानानां तुलापुरुषसंज्ञितम् । हिरण्यगर्भदानञ्च ब्रह्माण्डं तदनन्तरम् ॥ कल्पपादपदानञ्च गोसहस्रञ्च पञ्चमम् । हिरण्यकामधेनुश्च हिरण्याश्वस्तथैव च ॥ पञ्चलाङ्गलकञ्चैव धरादानं तथैव च । हिरण्याश्वरथस्तद्वत् हेमहस्तिरथस्तथा ॥ द्वादशं विष्णुचक्रञ्च ततः कल्पलतात्मकम् । सप्तसागरदानञ्च रत्नधेनुस्तथैव च । महाभूतघटस्तद्वत् षोडशः परिकीर्त्तितः ॥” इति मलमासतत्त्वम् ॥ * ॥ तद्विधिर्यथा, -- मत्स्य उवाच । “अथातः संप्रवक्ष्यामि महादानमनुत्तमम् । हिरण्याश्वरथं नाम महापातकनाशनम् ॥ पुण्यन्दिनमथासाद्य कृत्वा ब्राह्मणवाचनम् । लोकेशावाहनं कुर्य्यात्तुलापुरुषदानवत् ॥ ऋत्विङ्मण्डपसम्भारभूषणाच्छादनादिकम् । कृष्णाजिने तिलान् कृत्वा काञ्चनं कारयेद्रथम् । सप्ताश्वं चतुरश्वं वा चतुश्चक्रं सकूवरम् । ऐन्द्रनीलेन कुम्भेन ध्वजरूपेण संयुतम् । लोकपालाष्टकोपेतं पद्मरागदलान्वितम् ॥ चतुरः पूर्णकलसान् धान्यान्यष्टादशैव तु । कौषेयवस्त्रसंयुक्तमुपरिष्टाद्वितानकम् ॥ माल्येक्षुफलसंयुक्तं पुरुषेण समन्वितम् । यो यद्भक्तः पुनः कुर्य्यात् स तन्नाम्नाधिवासनम् ॥ छत्रचामरकौषेयवस्त्रोपानहपादुकाः । गोभिर्विभवतः सार्द्धं दद्याच्च शयनादिकम् ॥ अभावात् त्रिपलादूर्द्धं शक्तितः कारयेच्छुभम् ॥ अश्वाष्टकेन संयुक्तं चतुर्भिरथ वाजिभिः । द्वाभ्यामथ युतं दद्यादिम मन्त्रमुदीरयेत् ॥ नमो नमः पापविनाशनाय विश्वात्मने वेदतुरङ्गमाय । धाम्नामधीशाय भवाभवाय पापौघदावानल देहि शान्तिम् ॥ वस्वष्टकादित्यमरुद्गणानां त्वमेव धाता परमं विधानम् । यतस्ततो मे हृदयं प्रयातु धर्म्मैकनाम त्वमघौघनाशात् ॥ इति तुरगरथप्रदानमेतत् भवभयसूदनमत्र यः करोति । स कलुषपटलैर्व्विमुक्तदेहः परममुपैति पदं पिनाकपाणेः ॥ देदीप्यमानवपुषा विजितप्रभाव- माक्रम्य मण्डलमखण्डलचण्डभानोः । सिद्धाङ्गनानयनषट्पदपीयमान- वक्त्राम्बुजोऽम्बुजभवेन चिरं सहास्ते ॥ इति पठति शृणोति वा य इत्थं कनकरथतुरगप्रदानमस्मिन् । न स नरकपुरं व्रजेत् कदाचित् नरकरिपोर्भवनं प्रयाति भूप ! ॥” इति मात्स्ये हिरण्याश्वरथप्रदातिको नाम २५५ अध्यायः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हिरण्याश्वरथ¦ पु॰ हिरण्येन निर्मितः अश्वः तद्युक्तरथः। तुलादिषोडशमहादानमध्ये दानार्थं स्वर्णादिना

१ क-ल्पिते सुवर्णमयाश्वयुक्तरथे

२ तद्दाने न॰। तद्विधिर्यथा
“अथातः संप्रवक्ष्यामि महादानमनुत्तमम्। हिरण्या-श्वरथं नाम महापातकनाशनम्। पुण्यं दिनमथासाद्यकृत्वा ब्रह्मणवाचनम्। लोकेशावाहनं कुर्य्यात् तुला-पुरुपदानवत्। ऋत्विग्मण्डपसम्भारभूपणाच्छादनादि-कम्”। तुलापुरुषदानवदिति, सत्स्यपुराणोक्ततुलापुरुष-दानवद्वेदितव्यम्, आदिशब्दस्यापि पूर्ववदेव व्याख्या
“कृष्ण जिने तिलान् कृत्वा काञ्चनं कारयेद्रथम्। अ-ष्टाश्वं चतुरश्वं वा चतुश्चक्रं सकूवरम्। इन्द्रनीलेनकुम्भेन ध्वजरूपेण संयुतम्। लोकपालाष्टकोपेतंपद्मरागदलान्वितम्”। अत्र तिलानां रथस्य च परि-माणापेक्षायां पुरुषेच्छया नियमः प्रकृतौ परिमाणा-श्रवणात् केचित् तु सन्निधानात् हेमहस्तिरथादि-दानस्थितं तिलानां द्रोणपरिमाणत्वमिह बदन्ति। कू{??}रं युगाधारकाष्ठम्। ध्वजो दण्डः, स च रथस्यसौवर्णत्वात् सौवर्ण एव तथा चोपरिस्थितेन इन्द्रनील-मणिमयेन कलशेन युक्तः कर्त्तव्यः। लोकपाललक्षणमुक्तंब्रह्माण्डदाने,
“चत्वारः पूर्णकलशा धान्यान्यष्टौ दशैवतु। कौशेयवस्त्रसंयुक्तमुपरिष्टाद्वितानकम्। माल्येक्षु-फलसंयुक्तं पुरुषेण समन्वितम्। यो यद्भक्तः पुमान् कु-र्य्यात् स तन्नाम्नाधिवासनम्”। वितानमत्र पञ्चरर्णं,पुरुष इष्टदेवताकारः सौवर्णरथे स्थापनीयः। वस्त्रोपान-हपादुकाश्च।
“गोभिर्विभवतः सार्द्धं दद्याच्च शयना-सनम्। आभ रात्त्रिलादूर्द्धं शक्तितः कारयेद् बुधः”। भारः पलसहस्रद्वयम्, एतच्च सुवर्णमानं ध्वजपुरुष-लाकपालाश्वचक्ररक्षकसहितस्य येदितव्यम्।
“अष्टभी-रथसंयुक्तं चतुर्भिरथ वाजिभिः। द्वाभ्यामथ युतं दद्या-द्धेमसिंहध्वजान्वितम्”। हैमेन सिंहाङ्कितेन युक्तमितिअष्टाश्वपक्षे, चतुरश्वपक्षे च इन्द्रनीलमयकुम्भो ध्वजेकार्य्यः, अश्वद्वयपक्षे हेमसिंह इति व्यवस्था।
“चक्ररक्षावुभौ तस्य तुरगस्थावथाश्विनी। पुण्यं कालं ततःप्राप्य पूर्ववत् स्नापितो द्विजैः। शुक्लमाल्यम्बरो दद्या-[Page5431-b+ 38] दिमं मन्त्रमुदीरयेत्”। हेमा॰ दा॰ मत्स्यपुराणीयम्।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हिरण्याश्वरथ/ हिरण्या m. a horse and chariot made of -ggold (one of the 16 महा-दानs See. ) Cat.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--a gift of a chariot with 7 or 8 horses in gold on an auspicious day keeps one away from hell and takes him to the abode of शिव. M. २७४. 8; २८१. 1-१६.

"https://sa.wiktionary.org/w/index.php?title=हिरण्याश्वरथ&oldid=441337" इत्यस्माद् प्रतिप्राप्तम्