हिलमोचिका
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हिलमोचिका, स्त्री, शाकविशेषः । इत्यमरः । २ । ४ । १५७ ॥ हिंचा इति हिलञ्चा इति च वङ्गभाषा । हरहुच् इति हिन्दीभाषा । तत्- पर्य्यायः । हिलमोचिः २ हिलमोची ३ रोची ४ । इति शब्दरत्रावली ॥ मन्वी ५ विषघ्नी ६ मत्स्याक्षी ७ चक्राङ्गी ८ । इति रत्नमाला ॥ ब्राह्मी ९ शङ्खधरा १० आचारी ११ । तस्या गुणाः । यथा, भावप्रकाशे । “शोथं कुष्ठं कफं पित्तं हरते हिलमोचिका ॥” अपि च । “हिलमोची सरा तिक्ता कुष्ठघ्नी कफवातजित् ॥” श्लेष्मपित्तजित् इति वा पाठः । इति राज- वल्लभः ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हिलमोचिका स्त्री।
शाखाभेदः
समानार्थक:कलम्बी,उपोदका,मूलक,हिलमोचिका,वास्तुक
2।4।157।2।4
अर्शोघ्नः सूरणः कन्दो गण्डीरस्तु समष्ठिला। कलम्ब्युपोदिका स्त्री तु मूलकं हिलमोचिका॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हिलमोचिका f. Enhydra Hingcha L.