सामग्री पर जाएँ

हीनः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हीनः, त्रि, (ओ हा क लि त्यागे + क्तः । “ओदि- तश्च ।” ८ । २ । ४५ । इति नत्त्वम् । “घुमा- स्थागापाजहातीति ।” ६ । ४ । ६६ । इति ईत्वम् ।) ऊनः । (यथा, रघुः । १ । ७० “तया हीनं विधातर्मां कथं पश्यन्न दूयसे । सिक्तं स्वयमिव स्नेहाद् बन्ध्यमाश्रमपादपम् ॥”) गर्ह्यः । इत्यमरः । ३ । ३ । १२७ ॥ अधमः । इति जटाधरः ॥ (यथा, मनौ । ३ । १०७ । “आसनावसथौ शय्यामनुव्रज्यामुपासनम् । उत्तमेषूत्तमं कुर्य्यात् हीने हीनं समे समम् ॥”) प्रतिवादिविशेषः । स च पञ्चविधः । यथा, नारदः । “अन्यवादी क्रियाद्वेषी नोपस्थायी निरुत्तरः । आहूतप्रपलायी च हीनः पञ्चविधः स्मृतः ॥” इति व्यवहारतत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=हीनः&oldid=181474" इत्यस्माद् प्रतिप्राप्तम्