हुंकृतम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हुंकृतम् क्ली, (हुं इत्यव्यक्तशब्दस्य कृतं करणम् ।) हुङ्कारः । इति धरणिः ॥ (यथा, भागवते । ४ । १४ । ३४ । निजघ्नुर्हुंङ्कृतैर्वेणं हतमच्युतनिन्दया ॥”) वन्यवराहशब्दः । इति केचित् ॥ हु~ इति मन्त्रो- च्चरिते, त्रि ॥ (हु~ इत्यनेन तिरस्कृतः । यथा, महाभारते । १२ । ११८ । १ । “स श्वा प्रकृतिमापन्नः परं दैन्यमुपागतः । ऋषिणा हुंकृतः पापस्तपोवनबहिस्कृतः ॥” हुङ्कृतमस्यास्तीति । अच् । हुङ्कारविशिष्टः । यथा बृहत्संहितायां । ४८ । ११ । “अचिरप्रसूतहुङ्कृतवल्गितवत्सोत्सवे गोष्ठे ॥”)
