सामग्री पर जाएँ

हुडः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हुडः, पुं, (हुडतीति । हुड + कः ।) मेषः । इति हेमचन्द्रः राजनिर्घण्टश्च ॥ चौरादिनिवार- णार्थभूमिनिहितलौहमयतीक्ष्णशङ्कुविशेषः ॥ तस्य नामान्तरं गुडः । पा~जिकाटा इति भाषा । लगुडः । इति महाभारतम् ॥ सैन्या- श्रयस्थानम् । वुरुज् इति भाषा । रथोपरि विण्मूत्रत्यागशृङ्गम् । यथा, -- “पुरी समन्ताद्विहिता सपताका सतोरणा । सचक्रा सहुडा चैव सयन्त्रखनका तथा ॥” इति महाभारते वनपर्ब्बणि सौभवघे १५ अध्यायः ॥ पताका ध्वजाञ्चलः । तोरणानि बहिर्द्वाराणि । चक्राणि योधगणाः । हुडा- स्तदाश्रयस्थानानि । भाषायां वरुज्संज्ञानि । अन्ये तु विण्मूत्रोत्सर्ज्जनशृङ्गाणि हुडा इत्याहुः । उदाहरन्ति च । “कल्प्यन्ते हुडशृङ्गाणि रथस्योपरि सूरिभिः । विण्मूत्रस्पर्शशुद्ध्यर्थकरादिस्पर्श उद्यते ॥” इति ॥ यन्त्राणि आग्नेयौषधबलेन दृषत्पिण्डोत्क्षेपणानि । महान्ति कामानसंज्ञानि क्षुद्राणि सीसगुलि- कोत्क्षेपणानि बन्दुकसंज्ञानि । खनकाः सुरङ्ग- द्वारा गुप्तमार्गकर्त्तारः । इति तट्टीकायां नील- कण्ठः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हुडः [huḍḥ], 1 A ram.

An iron stake for keeping out thieves.

A kind of fence.

An iron club.

A kind of bulwark or fence.

A place for voiding excrement on a chariot.

A cloud.

"https://sa.wiktionary.org/w/index.php?title=हुडः&oldid=273504" इत्यस्माद् प्रतिप्राप्तम्