सामग्री पर जाएँ

हुतभुक्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हुतभुक्, [ज्] पुं, (हुतं भुङ्क्ते इति । भुज् + क्विप् ।) अग्निः । (यथा, भागवते । ३ । १६ । ८ । “नाहं तथाद्मि यजमानहविर्विताने श्चोतद्घृतप्लुतमदन् हुतभुङ्मुखेन ॥”) चित्रकवृक्षः । इत्यमरः । १ । १ । ५८ ॥ (यथा, सुश्रुते । ६ । ५३ । “पाठाविडव्योषविडङ्गसिन्धु- त्रिकण्टरास्नाहुतभुग्बलाभिः ॥” महादेवः । इति महाभारतम् । १३ । १७ । ८१ ॥ विष्णुः । इति च तत्रैव । १३ । १४९ । १०८ ॥)

"https://sa.wiktionary.org/w/index.php?title=हुतभुक्&oldid=181519" इत्यस्माद् प्रतिप्राप्तम्