हुताशः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हुताशः, पुं, (हुतं अश्नाति इति । अश + अण् ।) अग्निः । इति शब्दरत्नावली ॥ (यथा, भाग- वते । १ । १२ । २१ । “धन्विनामग्रणीरेषः तुल्यश्चार्ज्जुनयोर्द्धयोः । हुताशः इव दुर्द्धषः समुद्र इव दुस्तरः ॥”) भयम् । इति व्यवहारसिद्धम् ॥ (मुनिविशेषः । स चायुर्व्वेदसंहिताकारः । अग्निवेशमुनिः । तद्यथा, -- “भग्नं समासाद्विविधं हुताश ! काण्डे च सन्धौ च हि तत्र सन्धौ ॥” इति वैद्यकरुग्विनिश्चयसंग्रहे भग्नाधिकारे ॥ हुताश इति अग्निवेशसम्बोधनं चरके हुताश- शब्देनाग्निवेशोऽभिधीयते पदैकदेशे पदप्रवृत्तेः । इति तट्टीकायां श्रीकण्ठदत्तः ॥)
