हुताशनः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हुताशनः, पुं, (हुतं आहुतद्रव्यं अशनमस्य ।) अग्निः । यथा, गोभिलपुत्त्रकृतगृह्यासंग्रहे । “लक्षहोमे तु वह्निः स्यात् कोटिहोमे हुताशनः । पूर्णाहुत्यां मृडो नाम शान्तिके वरदः सदा ॥” इति तिथ्यादितत्त्वम् ॥ अपि च । “आरोग्यं भास्करादिच्छेद्धनमिच्छेद्धुताशनात् । ज्ञानन्तु शङ्करादिच्छेन्मुक्तिमिच्छेज्जनार्द्दनात् ॥” इति गुणविष्णुधृतमत्स्यपुराणम् । शिवः । इति केचित् ॥ (वटिकौषधविशेषः ।) तद्यथा, -- “एकद्विकद्वादशभागयुक्तं योज्यं विषं टङ्गणमूषणञ्च । हुताशनो नाम हुताशनस्य करोति वृद्धिं कफजिन्नराणाम् ॥” इति हुताशनो रसः ॥ * ॥ इति वैद्यकरसेन्द्रसारसंग्रहेऽजीर्णाद्यधिकारे ॥)
