हूङ्कारः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हूङ्कारः, पुं, (हूम् + कृ + भावे घञ् ।) हूमिति भयानकध्वनिः । यथा, -- “इत्युक्तः सोऽभ्यधावत्ताममुरो धूम्रलोचनः । हूङ्कारेणैव तं भस्म सा चकाराम्बिका ततः ॥” इति मार्कण्डेये देवीमाहात्म्यम् ॥
