हूनः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हूनः, पुं, (ह्वे + नक् सम्प्रसारणञ्च ।) म्लेच्छ- जातिविशेषः । यथा, -- “स्वपाकश्च तुरुष्कस्तु हूनो यवन इत्यपि । लोकवाह्यस्तु यो वाजिगवाश्याचारवर्ज्जितः । म्लेच्छः किरातशवरपुलिन्दाद्यास्तु तद्भिदा ॥” इति जटाधरः ॥ मादराजदेशीयस्वर्णमुद्राविशेषश्च ॥
