सामग्री पर जाएँ

हृच्छयः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हृच्छयः, पुं, (हृदि शेते इति । शी + “अधि- करणे शेतेः ।” ३ । २ । १५ । इति अच् ।) कामदेवः । इति हलायुधः ॥ (यथा, महा- भारते । ३ । ४६ । ४२ । “तत् प्रसीद न मामार्त्तां विसर्ज्जयितुमर्हसि । हृच्छयेन च सन्तप्तां भक्ताञ्च भज मानद ! ॥”) हृदयशायिनि, त्रि ॥ (यथा, महाभारते । १३ । ८५ । १७ । “जगत्पतिरनिर्द्देश्यः सर्व्वगः सर्व्वभावनः । हृच्छयः सर्व्वभूतानां ज्येष्ठो रुद्रादपि प्रभुः ॥” पुं, कामः । यथा, भागवते । १ । ६ । ७ । “सकृद्यद्दर्शितं रूपमेतत् कामाय तेऽनघ ! । मत्कामः शनकैः साधुः सर्व्वान् मुञ्चति हृच्छयान् ॥” “हृच्छयान् कामान् ।” इति तट्टीकायां श्रीधरः ॥)

"https://sa.wiktionary.org/w/index.php?title=हृच्छयः&oldid=181562" इत्यस्माद् प्रतिप्राप्तम्