हृच्छूल
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हृच्छूलम्, क्ली, (हृदयजातं शूलमिति मध्यलोपी समासः ।) हृदयजातशूलरोगः । तदौषधं यथा, गारुडे १८९ अध्याये । “क्वथितोदकपानन्तु शम्बूका क्षारकं तथा । मृगशृङ्गं ह्यग्निदग्धं गव्याज्येन समन्वितम् । पीतं हृत्पृष्ठशूलानां भवेन्नाशकरं शिव ! ॥” अपि च । “विल्लाग्निमन्थश्योनाकपाटलापारिभद्रकम् । प्रसारण्यश्वगन्धा च बृहती कण्टकारिका ॥ बलाचातिवला रास्ना श्वदंष्ट्रा च पुनर्नवा । एरण्डशारिवा पर्णी गुडूची कपिकच्छुरा ॥ एषां दश पलिकान् भागान् क्वाथयेत् सलिले- ऽमले । तेन पादावशेषेण तैलं पात्रे विपाचयेत् ॥ आजं वा यदि वा गव्यं क्षीरं दत्त्वा चतुर्गुणम् । शतावरीरसञ्चैव तैलतुल्यं प्रदापयेत् ॥ द्रव्याणि यानि पेष्याणि तानि वक्ष्यामि तत् शृणु ॥ शतपुष्पा देवदारु शालपर्णी वचागुरु । कुष्ठं मांसी सैन्धवञ्च पलमेकं पुनर्नवा । पाने नस्ये तथाभ्यङ्गे तैलमेतत् प्रदापयेत् ॥ हृच्छूलं पार्श्वशूलञ्च गण्डमालाञ्च नाशयेत् । अपस्मारं वातरक्तमायुष्मांश्च पुमान् भवेत् ॥” इति च गारुडे १९८ अध्यायः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हृच्छूल¦ न॰
६ त॰। शूसरोगभेदे वैद्यकम्।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हृच्छूल/ हृच्--छूल m. n. (for -शूल)-hheart-pain , (prob.) spasm of the -hheart Car. Sus3r.