सामग्री पर जाएँ

हृदयङ्गमम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हृदयङ्गमम्, क्ली, (हृदयं गच्छतीति । गम + खच् । मुम् च ।) युक्तियुक्तवाक्यम् । इति भरतः ॥ तत्पर्य्यायः । सङ्गतम् २ । इत्यमरः । १ । ६ । १८ ॥ (मनोहरे, त्रि । यथा, कुमारे । २ । १६ । “इति तेभ्यः स्तुस्तीः श्रुत्वा यथार्था हृदयङ्गमाः । प्रसादाभिमुखो वेधाः प्रत्युवाच दिवौकसः ॥” “हृदयङ्गमाः मनोहराः ।” इति तट्टीकायां मल्लिनाथः ॥)

"https://sa.wiktionary.org/w/index.php?title=हृदयङ्गमम्&oldid=181579" इत्यस्माद् प्रतिप्राप्तम्