सामग्री पर जाएँ

हृदयम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हृदयम्, क्ली, (ह्रियते विषयैरिति । हृ + “वृह्रोः षुग्दुकौ च । उणा० ४ । १०० । इति कयन् दुक् च ।) बुक्कम् । वक्षः । मनः । यथा, -- “उरस्यपि च वुक्वायां हृदयं मानसेऽपि च ॥” इति त्रिकाण्डशेषः ॥ वुक्काग्रमासं हृदयं हृदिति । चत्वारि हृदये । केचित्तु वुक्कात् पृथगेव हृदयान्तर्गते मांस- विशेषे पद्माकारे हृदयादिद्वयमाहुः । धातो- रनेकार्थत्वात् । इत्यमरटीकायां भरतः । २ । ६ । ६४ ॥ अत्र अनाहतनामकद्वादशदलपद्ममस्ति । यथा, “आधारे लिङ्गनाभौ हृदयसरसिजे तालुमूले ललाटे द्वे पत्रे षोडशारे द्विदशदशदले द्वादशार्द्धे चतुष्के । वासान्ते वादिलान्ते ड-फ-क-ठसहिते कण्ठदेशे स्वराणां हक्षौ कोदण्डमध्ये सकलदलगतं वर्णरूपं नमामि ॥” इति षट्चक्रभेदः ॥ किञ्च । “तस्योर्द्ध्वे हृदि पङ्कजं सुललितं वन्धूककान्त्यु- ज्ज्वलं काद्यैर्द्वादशवर्णकैरुपकृतं सिन्दूररागाञ्चितैः ॥ नामानाहतसंज्ञकं सुरतरुं वाञ्छातिरिक्तप्रदं वायोर्मण्डलमत्र धूमसदृशं षट्कोणशोभान्वि- तम् ॥” इति षट्चक्रक्रमः ॥ * ॥ तस्य शुभाशुभलक्षणं यथा, -- “समोन्नतञ्च हृदयमकल्प्यं मांसलं पृथु । नृपाणामधमानाञ्ज खरलोमशिरालकम् ॥” इति गारुडे ६६ अध्यायः ॥ (तथास्य विवृतिः । “अर्थे दश महामूलः समासक्ता महाफलाः । महच्चार्थश्च हृदयं पर्य्यायैरुच्यते बुधैः ॥ षडङ्गमङ्गविज्ञानमिन्द्रियाण्यर्थपञ्चकम् । आत्सा च सगुणश्चेतः चिन्त्यञ्च हृदि संश्रितम् ॥ प्रतिष्ठार्थं हि भावानामेषां हृदयमिष्यते । गोपानसीनामागारकर्णिके वार्थचिन्तकैः । तस्यापघातान्मूर्च्छायं भेदान्मरणमिच्छति ॥ यद्धि तत् स्पर्शविज्ञानन्धारितन्तत्र संश्रितम् । तत्परस्यौजसः स्थानन्तत्र चैतन्यसंग्रहः ॥ हृदयं महदर्यश्च तस्मादुक्ताश्चिकित्सकैः । तेन मूलेन महता महामूला मता दश ॥” इति चरके सूत्रस्थाने त्रिंशेऽध्याये ॥ “हृदयमिति कृतवीर्य्यो बुद्धेर्मनसश्च स्थानत्वात् ॥” इति सुश्रुते शारीरस्थाने तृतीयेऽध्याये ॥ “शोणितकफप्रसादजं हृदयं तदाश्रया हि धमन्यः प्राणवहाः । तस्याधो वामतः प्लीहा फुस्फुसश्च दक्षिणतो यकृत् क्लोम च ॥ तद्धृदयं विशेषेण चेतानास्थानमतस्तस्मिंस्तमसा- वृते सर्व्वप्राणिनः स्वपन्ति । भवति चात्र । पुण्डरीकेण सदृशं हृदयं स्यादधोमुखम् । जाग्रतस्तद्विकशति स्वपतश्च निमीलति ॥” इति च सुश्रुते शारीरस्थाने चतुर्थेऽध्याये ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हृदयम् [hṛdayam], 1 The heart, soul, mind; हृदये दिग्धशरैरिवाहतः Ku.4.25; so अयोहृदयः R.9.9; पाषाणहृदय &c.

The bosom, chest, breast; बाणभिन्नहृदया निपेतुषी R.11.19.

Love, affection.

The interior or essence of anything.

The secret science; अश्व˚, अक्ष˚ &c.; ऋतुपर्णो नलसखो यो$श्वविद्यामयान्नलात् । दत्वा$क्षहृदयं चास्मै सर्वकामस्तु तत्सुतः ॥ Bhag.9.9.17.

True or divine knowledge.

The Veda.

Wish, intention; एवं विरिञ्चादिभिरीडितस्तद्विज्ञाय तेषां हृदयं तथैव Bhāg.8.6.16.

= अहंकारम् q. v.; मनो विसृजते भावं बुद्धिरध्यवसायिनी । हृदयं प्रियाप्रिये वेद त्रिविधा कर्मचोदना Mb.12.248.1. -Comp. -आत्मन् m. a heron. -आविध्a. heart-rending, heart-piercing; रोचनैर्भूषितां पम्पामस्माकं हृदयाविधम् Bk.6.73. -ईशः, -ईश्वरः a husband. (-शा, -री f.)

a wife.

a mistress. -उदङ्कः heaving of the heart. -उद्वेष्टनम् contraction of the heart.-उन्मादकर a. bewitching hearts. -कम्पः tremor of the heart, palpitation. -क्लमः weakness of the heart.-क्षोभः agitation of the heart. -ग्रन्थिः anything which binds the soul or grieves the heart (as अविद्यारूपसंसार- बन्धन); भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः Muṇd.2.2.8. -ग्रहः spasm of the heart. -ग्राहिन् a. heart-captivating.-चोरः one who steals the heart or affections. -छिद् a. heart-rending, heart-piercing. -जः a son. -ज्ञ a. knowing the heart or its secret. -दाहिन् a. heart-burning.-दीपः, -दीपकः N. of a glossary of materia medica by Vopadeva. -दौर्बल्यम् faint-heartedness. -पुरुषः beating of the heart. -प्रमाथिन् a. agitating the heart; क्व रुजा हृदयप्रमाथिनी क्व च ते विश्वसनीयमायुधम् M.3.1. -प्रस्तर a. cruel. -रज्जुः (in geom.) a central line. -रोगः, -शल्यम् a thorn or wound in the heart, a heartdisease; P.VI.3.51; समुत्खाता नन्दा नव हृदयशल्या इव भुवः Mu.1.13.

लेखः knowledge.

heart-ache, anxiety. -विध्, -वेधिन् a. heart-piercing. -विरोधः oppression of the heart. -वृत्ति f. disposition of the heart. -शैथिल्यम् depression, faintheartedness. -शोषणa. heart-withering. -संघट्टः paralysis of the heart.-संमित a. breast-high. -स्थ a. being or cherished in the heart. -स्थानम् the breast, bosom.

"https://sa.wiktionary.org/w/index.php?title=हृदयम्&oldid=274325" इत्यस्माद् प्रतिप्राप्तम्