हृद्यः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हृद्यः, पुं, (हृदय + यत् । हृदादेशः ।) वशकृद्- वेदमन्त्रः । इति मेदिनी ॥
हृद्यः, त्रि, (हृदयस्य प्रियमिति । हृदय + “हृद- यस्य हृल्लेखयदण्लासेषु ।” ६ । ३ । ५० । इति यत् हृदादेशश्च ।) मनोहरः । इत्यमरः । ३ । १ । ५३ ॥ अस्य पर्य्यायः मनोज्ञशब्दे द्रष्टव्यः ॥ हृज्जः । हृद्धितः । हृत्प्रियः । इति मेदिनी ॥ (यथा, मनौ । ३ । २२७ । “भक्ष्यं भोज्यञ्च विविधं मूलानि च फलानि च ॥ हृद्यानि चैव मांसानि पानानि सुरभीणि च ॥”)
