सामग्री पर जाएँ

हृद्रोगः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हृद्रोगः, पुं, कुम्भराशिः । इति शुद्धिदीपिका ॥ (हृदयस्य रोग इव ।) कामः । यथा, -- “हृद्रोगमाश्वपहिनोत्यचिरेण धीरः ।” इति श्रीभागवतम् ॥ हृदयस्य रोगः ।) हृदयपीडा । तत्र हृद्रो- गस्य विप्रकृष्टं निदानमाह । “अत्युष्णगुर्व्वम्लकषायतिक्त- श्रमाभिघाताध्ययनप्रसङ्गैः । सञ्चिन्तनैर्व्वेगविधारणैश्च हृदामयः पञ्चविधः प्रदिष्टः ॥” प्रसङ्गः सततं सेवा । सञ्चिन्तनमतिचिन्ता राज- भयादिकमिति यावत् । पञ्चविधः वातिकः पैत्तिकः श्लैष्मिकः सान्निपातिकः क्रिमिज- श्चेति ॥ * ॥ तस्य संप्राप्तिपूर्व्वकं लक्षणमाह । “दूषयित्वा रसं दोषा विगुणा हृदयङ्गताः । हृदि वाधां प्रकुर्व्वन्ति हृद्रोगं तं प्रचक्षते ॥” विगुणाः दुष्टाः । वाधां दोषभेदे नानाविधां व्यथाम् । भङ्गवत् पीडामिति गयदासः ॥ * ॥ वातिकं हृद्रोगमाह । “आयम्यते मारुतजे हृदयं तुद्यते तथा । निर्मथ्यते दीर्य्यते च स्फोट्यते पाट्यतेऽपि च ॥” मारुतजे हृद्रोगे इति शेषः । आयम्यते व्यथया विस्तार्य्यत इव । तुद्यते सूचीभिरिव । निर्म- थ्यते मन्थानेनेव । दीर्य्यते करपत्रेण द्विधा क्रियत इव । स्फोट्यते आरयेव । पाट्यते कुठा- रेण बहुधा क्रियत इव ॥ * ॥ पैत्तिकमाह । “तृष्णोष्मदाहचोषाः स्युः पैत्तिके हृदये क्लमः । धूमायनञ्च मूर्च्छाच र्क्लदः शोषो मुखस्य च ॥” उष्मा शीतगात्रस्यैव शीतवाताभिलाषहेतु किञ्चिदन्तरौष्णम् । दाहः पार्श्वस्थेन वह्रिनेव दुःखहेतुर्गात्रसन्तापः । चोषः चूषणेनेव पीडा । हृदये क्लमः हृदयाकुलत्वं ग्लानिरित्यर्थः । धूमा- यनं कण्ठाद्धूमनिर्गम इव । क्लेदः किञ्चिद्दर्गन्धः सटित इव ॥ * ॥ श्लैष्मिकमाह । “गौरवं कफसंस्रावोऽरुचिस्तम्भोऽग्निमार्द्दवम् । माधुर्य्यमपि चास्यस्य वलासा वर्त्तते हृदि ॥” वलासा वर्त्तते हृदि कुपितकफव्याप्तेः । गौरवं हृदयस्य । स्तम्भो जडता । मार्दवं जलप्लुत- मिव । माधुर्य्यं मुखे ॥ * ॥ त्रिदोषजमाह । “विद्यात् त्रिदोषमप्येवं सर्व्वलिङ्गं हृदामयम् ॥” कृमिजमाह । कृमयो जायन्ते अस्मिन्निति कृमिज इति निरुक्तिः ॥ * ॥ तस्य निदान- पुर्व्विकां संप्राप्तिमाह । “त्रिदोषहेतुहृद्रोगे यो दुरात्मा निषेवते । तिलक्षीरगुडादींश्च ग्रन्थिस्तस्योपजायते ॥ मर्म्मैकदेशसंक्लेदं रसश्चाप्युपगच्छति । सक्लेदात् कृमयश्चास्य भवन्त्युपहतात्मनः ॥” मर्म्मैकदेशे हृदयैकदेशे संक्लेदं सटितत्वं रस उपगच्छति संक्लेदात् । रसस्य सटितत्वात् । उपहतात्मनः तिलाद्यहिताहारेण ॥ * ॥ तस्य लक्षणमाह । “उत्क्लेदः ष्ठोवनं तोदः शूलं हृल्लासकस्तमः । “शुण्ठी सौवर्च्चलं हिङ्गु पीत्वा हृदयरोगनुत् ।” इति च गारुडे । १८८ । ४३ ॥

"https://sa.wiktionary.org/w/index.php?title=हृद्रोगः&oldid=181617" इत्यस्माद् प्रतिप्राप्तम्